Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 27
________________ बृहद्वत्तिः । FOR दानं च ग्रहणं च दान-ग्रहणे, प्रसङ्गस्य प्रसङ्गागतस्य दान ग्रहणे प्रसङ्गदान ग्रहणे; आक्षेपश्च निर्णयश्च प्रसङ्गदान-ग्रहणे च तानि तथेति विशेषा. समासः, तदनुवर्तनशीला द्वयेऽपि शिष्या-ऽऽचार्या योग्या भवन्ति । प्रकारान्तरेणापि टङ्कण-वणिगुपैमानं भावयति- अहवेत्यादि गाथा । अथवा, शिष्येणौचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरु॥६२५॥ विनयः, गुरुणापि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतपदानम् । गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्य-देयक्रयाणके तयोर्वि नियोगो विनिमयस्तस्माद् गुरुविनय-श्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्या-ऽऽचार्याः कर्मनिर्जरालाभसहिताष्टकणवणिगुपमा अनु. योगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं गोणी चंदण' इत्यादिना योग्या अयोग्याश्चोक्ताः शिष्या-ऽऽचाBाः ।। १४४४ ॥ १४४५॥ इदानीं शिष्यस्य विशेपत एव योग्या-योग्यत्वमभिधित्सुः प्रस्तावनामाह अत्थी स एव य गुरू होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नइ तत्थाजोग्गो इमो होइ ॥१४४६॥ य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतमूत्रा-ऽर्थः सन् यस्माद् गुरुर्भवति नान्यः, तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते । तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति ।। इति द्वादशगाथार्थः ॥ १४४६ ॥ कैस्स न होही देसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥१४४७॥ कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः, अपितु भविष्यत्येव । किं सर्व एव ?, न, इत्याह- अनभ्युपगतः श्रुतसंपदाऽनुपसंपन्नोऽनिवेदितात्मेत्यर्थः । अनुपसंपन्नत्वेऽपि तथा निरुपकारी गुरूणामनुपकारकः सर्वथा गुरुकृत्येष्वप्रवर्तक इत्यर्थः । तत्राप्यात्मच्छन्दमतिः स्वाभियं कार्यकारीत्यर्थः। तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः । तथा, गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च- 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते ?, समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि' इत्येवंचित्त एव सदैवास्ते । तदेवंभूतः शिष्योऽयोग्य एवं श्रवणस्येति भावः ॥ इति नियुक्तिगाथार्थः ।। १४४७ ।। अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह १ घ.ज. 'पमा भा'। २ गाथा १४३४ । ३ क.ख.ग.घ. 'दनेत्या' । ४ अर्थी स एव च गुरुर्भवति यतस्ततो विशेषतः शिष्यः । योग्योऽयोग्यो भण्यते समायोग्योऽयं भवति ॥ १४४६ ।। . ५ कस्य न भविष्यति द्वेष्योऽनभ्युपगतश्च निरुपकारी च । आत्मच्छन्दमतिकः प्रस्थितको गन्तुकामश्च ॥ १४४७ ॥ ६ घ.ज. 'प्रायका'। 4॥६२५॥ an Education Intemato Foc Personal and Private Use Only www.janelbrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202