Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 194
________________ elelalticolelola विशेषा ॥७९२॥ हे आयुष्मन्नचलभ्रातः ! त्वमेवं मन्यसे-किं पुण्य-पापे स्तो नवा ? इति । अयं चानुचितः संशयः, यस्माद् विरुद्धवेदपदनिवन्धनो विरुद्धदर्शनथुतिनिवन्धनश्च तव वर्तते । तत्र वेदपदानि तावत- “पुरुष एवेदं निं सर्वम्-" इत्यादि यथा द्वितीयगणधर तथा वाच्यानि । तेषां चार्थ त्वं न जानासीत्याद्यपि तथैव व्याख्येयमिति ॥ १९०७ ॥ अत्र भाष्यकारः पूर्वपक्षं प्रपञ्चयन्नाह मण्णसि पुण्णं पावं साहारणमहब दो विभिन्नाई। होज न वा कम्मं चिय सभावओ भवपवंचोऽयं॥१९०८॥ . इह केषाश्चित् तीथिकानामयं प्रवादः- 'पुण्यमेवैकमस्ति न पापम्' । अन्ये त्वाहुः- 'पापमेवैकमस्ति न तु पुण्यम्' । अपरे तु । वदन्ति- 'उभयमप्यन्योन्यानुविद्धस्वरूपं मेचकमणिकल्पं संमिश्रसुख-दुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्तु' इति । अन्ये तु प्रतिपादयन्ति-स्वतन्त्रमुभयं विविक्तसुख-दुःखकारणं 'होज्ज त्ति' भवेदिति । अन्ये पुनराहुः- 'मूलतः कमैव नास्ति, खभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्चः'। अतस्त्वमप्येतान् पश्च विकल्पान् मन्यसे । एतेषां च विकल्पानां परस्परविरुद्धत्वात् संशयदो. लामारूढोऽसि त्वमिति ।। १९०८ ॥ ननु येषां पुण्यमेवैकमस्ति, न तु पापम् , तन्मते कथं कस्यापि दुःखोपपत्तिः ? इत्याह पुण्णुक्करिस्से सुभया तरतमजोगावगरिसओ हाणी । तस्सेव खए मोक्खो पत्थाहारोवमाणाओ॥ १९०९॥ पुनातीति पुण्यं तस्योत्कर्षलेशतो लेशतश्च वृद्धौ शुभता भवति, सुखस्यापि क्रमशो वृद्धिर्भवति तावत् , यावदुत्कृष्टं स्वर्गसुखमित्यर्थः । तस्यैव पुण्यस्य तर-तमयोगापकर्षतो हानिः सुखस्य- दुःखं भवति । इदमुक्तं भवति- यथा यथा पुण्यमपचीयते तथा तथा जीवानां क्रमेण दुःखमुत्पद्यते, यावत् सर्वप्रकर्षप्राप्तं नरकदुःखम् । तस्यैव च पुण्यस्य सर्वथा क्षये मोक्ष इति । एतच्च सर्व पथ्याहारोपमानाद् भावनीयम् । तथाहि- यथा पथ्याहारस्य क्रमेण वृद्धावारोग्यवृद्धिस्तथा पुण्यवृद्धौ सुखवृद्धिः, यथा च पथ्याहारस्य क्रमेण परिहारे सरोगता भवति, एवं पुण्यापचये दुःखोत्पत्तिः सर्वथा पथ्याहारपरिहारे च मरणवत् पुण्यक्षये मोक्ष इति ॥ १९०९ ॥ केवलपापाभ्युपगमे सुखसंभवः कथम् ? इत्याह ॥७९२॥ १ मन्यसे पुग्यं पापं साधारणमधवा द्वे अपि भिन्ने । भवेद् न वा मैंव खभावतो भवप्रपञ्चोऽयम् ॥ १९०८ ॥ २ पुण्योत्कर्षे शुभता तरतमयोगापकर्षतो हानिः । तस्यैव क्षये मोक्षः पध्याहारोपमानात् ॥ १९०९ ॥ Jan Education Internation For and Prive Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202