Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
।।७९६ ।।
Jain Educationa Internation
सुह- दुक्खकारणं जइ कम्मं कज्जरस तदणुरूवं च । पत्तमरूवं तं पि हु अह रूविं नाणुरूवं तो ॥ १९२२ ॥ ननु यदि सुख-दुःखयोः पुण्य-पापात्मकं कर्म कारणम्, तच्च यदि कार्यस्य सुख-दुःखरूपस्यानुरूपं सदृशमिष्यते, तर्हि सुखदुःखयोरात्मपरिणामत्वेनारूपत्वात् तदपि पुण्य प्राप्रात्मकं कर्म तदनुरूपतया रूपं प्राप्नोति । अथ रूपवत्, तर्हि नानुरूपं तत् मूर्तत्वेन विलक्षणत्वादिति ||१९२२ ॥
अत्रोत्तरमाह
नेहि सव्वहाणुरूवं भिन्नं वा कारणं, अह मयं ते । किं कज्ज-कारणत्तणमहवा वत्थुत्तणं तस्स ? ॥ १९२३ ॥
न हि सर्वथा कार्यानुरूपं कारणमिष्यते, येन सुख-दुःखवत् कर्मणोऽप्यरूपत्वं प्रेर्यते । नाप्येकान्तेन सर्वधर्मैः कारणं कार्याद् भिन्नमेष्टव्यम् | ‘अह मयं ते त्ति' अथ ते तवैतद् मतम् - एकान्तेन सर्वैरपि धर्मैः कारणं कार्यानुरूपमेव, भिन्नं वाऽनुरूपमेवेति तर्हि सर्वथाऽनुरूपत्व एकस्य कारणत्वेऽपरस्यापि कारणत्वात्, एकस्य च कार्यत्वेऽन्यस्यापि कार्यत्वात् किं तयोः कार्य-कारणत्वम् ?- न किञ्चित् द्वयोरपि कारणत्वात्, कार्यत्वाद् वेति । अथैकान्तभेदेऽभ्युपगम्यमाने कार्यस्य वस्तुत्वे किं नाम तस्य कारणस्य वस्तुत्वम् ? - न किञ्चित्, द्वयोरपि वस्तुत्वे सर्वथा भेदहानिप्रसङ्गादिति । तस्माद् नैकान्तेनानुरूपता, अननुरूपता वा कार्य-कारणयोः || १९२३ ॥
किं तर्हि ?,
सैवं तुला जइ तो कज्जाणुरुवया केयं ? । जं सोम्म ! सपज्जाओ कज्जं परपज्जओ सेसो ॥ १९२४ ॥
न केवलं कार्य-कारणे एव तुल्या- तुल्यरूपे, किन्तु सकलमपि त्रिभुवनान्तर्गतं वस्तु परस्परं तुल्या- तुल्यरूपमेव, न पुनः किञ्चित् कस्याप्येकान्तेन तुल्यमतुल्यं वा । लब्धावकाशः परः प्राह - 'जईत्यादि' यद्येवम्, ततः केयं कार्यानुरूपता कारणस्य विशेषतो - ऽन्विष्यते, येनोच्यते- 'मुँह- दुक्खाणं कारणमणुरूवं' इत्यादि । यदि हि किञ्चिदेकान्तेनानुरूपं स्यात् तदेत्थं वक्तुं युज्यते, यदा त्वेकान्ततो न किश्चिदनुरूपम्, नाप्यननुरूपम्; किन्तु सर्वे सर्वेण तुल्या-तुल्यरूपमेव, तदा किमनेन विशेषणेन । अत्रोच्यते- 'ज
१ सुख-दुःखकारणं यदि कर्म कार्यस्य तदनुरूपं च प्राप्तमरूपं तदपि खल्वध रूपि नानुरूपं ततः । १९२२ ॥ २ नहि सर्वधानुरूपं भिन्नं वा कारणं, अथ मतं ते । किं कार्य-कारणत्वमथवा वस्तुत्वं तस्य ? ।। १९२३ ।
३ सर्व तुल्या-तुल्यं यदि ततः कार्यानुरूपता केयम् ? यत् सौम्य ! स्वपर्यांयः कार्यं परपर्ययः शेषः ॥ १९२४ ॥
For Personal and Private Use Only
४ गाथा १९३०
बृहद्वतिः ।
॥७९६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202