Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
॥७९५॥
एताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव, सुगमाश्च । नवरं 'कारण-कज्जाणुमेओ सो त्ति' स च जीव-कर्मणोः पुण्य-पापाभिधानः परिणामः कारणेन कार्येण चाऽनुमीयते-कारणानुमानात् कार्यानुमानाच्च गम्यत इत्यर्थः । एतदेवानुमानद्वयमाह'किरियाणं कारणओ इत्यादि' दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात् कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूपपुण्य-पापात्मको जीव-कर्मपरिणामः, यथा कृष्यादिक्रियाणां शालि-यव-गोधूमादिकम् । उक्तं च-- "समासु तुल्यं विषमासु तुल्यं सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं तद् देहिनां सोऽस्ति नु कोऽपि धर्मः ॥ १॥"
एतत् कारणानुमानम् । 'देहाईणमित्यादि' देहादीनां कारणमस्ति, कार्यरूपत्वात् तेषाम् , यथा घटस्य मृद्-दण्ड-चक्र-चीवरादिसामग्रीकलितः कुलालः । न च वक्तव्यम्- दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि सुरूपे-तरादिभावेन देहादीनां वैचित्र्यदर्शनात् , तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात् । अत एव पुण्य-पापभेदेन कर्मणो द्वैविध्यम् , शुभदेहादीनां पुण्यकार्यत्वात् , इतरेषां तु पापफलत्वात् । उक्तं च
" इह दृष्टहेत्वसंभविकार्यविशेषात् कुलालयत्न इव । हेत्वन्तरमनुमेयं तत् कर्म शुभा-ऽशुभं कर्तुः ॥ १॥" एतत् कार्यानुमानम् । तथा, मदभिहितमिति च कृत्वाऽग्निभूतिवत् त्वमपि कर्म प्रतिपद्यस्व, सर्वज्ञवचनप्रामाण्यादित्यर्थः । तदपि पुण्य-पापविभागेन विभक्तं प्रतिपद्यस्व, देहादीनां तत्कार्याणां क्रियाणां च तत्कारणभूतानां शुभा-ऽशुभत्वेन तद्वविध्यदर्शनादिति ॥ १९१४ ॥ १९१५॥ १९१६ ॥ १९१७ ॥ १९१८ ॥ १९१९ ॥ १९२० ।।
पुनरपि पुण्य-पापयोः साधनाय प्रमाणमाह
सुह-दुक्खाणं कारणमणुरूवं कज्जभावओऽवस्सं । परमाणवो घडस्स व कारणमिह पुण्ण-पावाइं ॥१९२१॥
अस्त्यवश्यं सुख-दुःखयोरनुरूपं कारणम् ..कार्यत्वात् तयोः, यच्चह कार्यं तस्यानुरूपं कारणं भवत्येव, यथा घटस्य परमाणवः, तच्च तयोरिहानुरूप कारणं सुखस्य पुण्यं, दुःखस्य तु पापमिति ॥१९२१॥ प्रेरकः पाह
, सुख-दुःखयोः कारणमनुरूपं कार्यभावतोऽवश्यम् । परमाणवो घटस्येव कारणमिह पुण्य-पापे ॥ १९२१ ॥
७९५||
For Person and Private Use Only
Siww.jainelibrary.orm
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202