Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
इत्तिः ।
पावुक्करिसेऽहमया तरतमजोगावगरिसओ सुभया । तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥१९१०॥ विशेषा
इहापथ्याहारोपमानाद् वैपरीत्येन भावना कार्या । तथाहि- यथा क्रमेणापथ्यवृद्धौ रागवृद्धिः, तथा पशियत्यात्मानं मलिनव- तीति पापं, तस्य वृद्धौ मुखवृद्धिरूपाऽधमता मन्तव्या-क्रमेण दुःखं वर्धते, यावदुत्कृष्टं नारकदुःखम् । यथा चापथ्यत्यागात् क्रमेणारोग्यवृद्धिः, तथा क्रमेण पापस्यापकर्षात् सुखस्य वृद्धिः, यावदुत्कृष्टं सुरसौख्यम् । यथा चापथ्याहारस्य सर्वथा परित्यागात् परमारोग्यमुपजायते, एवं सर्वपापक्षये मोक्ष इति ॥ १९१०॥ ____ अथ साधारणं पुण्यपापाख्यमेकमेव संकीर्ण वस्त्विति तृतीयविकल्पं भावयन्नाहसाहारणवण्णादि व अह साहारणमहेगमत्ताए । उक्चरिसा-वगरिसओ तस्सेव य पुण्णपावक्खा ॥१९११॥
'अह साहारणमिति' अथ साधारण संकीर्णपुण्यपापाख्यं वस्तु भाव्यत इत्यर्थः । कथंभूतं पुनरिदमवगन्तव्यम् ? इत्याह'साहारणवण्णादि व त्ति' यथा साधारणं तुल्यं हरितालगुलिकादीनामन्यतरन्मीलितं वर्णकद्वयम् ; आदिशब्दाद् यथा मेचकमणिः, | नरसिंहादिर्वा, तथेदमपि पुण्यपापाख्यं संकीर्णमेकं वस्त्वित्यर्थः । ननु यद्येकं वस्त्विदम् , तर्हि पुण्यं पापं चेति परस्परविरोधिवस्तुविषयमाख्याद्वयं कथं लभते ? इत्याह- 'अहेगमत्ताए इत्यादि' अथ तस्यैवैकस्य संकीर्णपुण्यपापाख्यस्य वस्तुन एकया पुण्यमात्रया
एकेन पुण्यांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां पुण्याख्या प्रवर्तते; एकया तु पापमात्रया- एकेन पापांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां Foपापाख्या प्रवर्तते । अपकर्षेऽपि पुण्यांशस्य पापाख्या प्रवर्तते, पापांशस्य त्वपकर्षे पुण्याख्या प्रवर्तत इति ।। १९१० ॥ १९११ ॥
चतुर्थ पश्चमं च विकल्पमधिकृत्याहएवं चिय दो भिन्नाइं होज, होज व सभावओ चेव । भवसंभूई, भण्णइन सभावाओ जओऽभिमओ॥१९१२॥
होज्ज सभावो वत्थु निक्कारणया व वत्थुधम्मो वा । जउ वत्थु णत्थि तओऽणुवलडीओ खपुष्पं व ॥१९१३॥ एवमेव केषाश्चिद् मतेन द्वे अपि भिन्ने स्वतन्त्र स्यातां पुण्य-पापे, तत्कार्यभूतयोः सुख-दुःखयोर्योगपद्येनानुभवाभावात् ।
, पापोत्कर्षेऽधमता तरतमयोगापकर्षतः शुभता । तस्यैव क्षये मोक्षोऽपथ्यभक्तोपमानात् ॥ १९१० ॥ २ साधारणवर्णादीवाथ साधारणमर्थकमात्रया । उत्कर्षा-ऽपकर्षतस्तस्यैव च पुण्यपापाण्या ॥ ११ ॥ ३ एवमेव हे भिन्ने भवेतां, भवेद् वा स्वभावत एव । भवसंभूतिः, भण्यते न स्वभावाद् यतोऽभिमतः ॥ १९१२ ॥ ४ गाथा १७८६ ।
DireeRadia
भ७९३॥
(ORSH
For Personal and Private Use Only
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202