Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेष
॥७९८॥
मूर्त च तत् कर्म । कुतः ? इत्याह
ऐत्तो च्चिय तं मुत्तं मुत्तबलाहाणओ जहा कुंभो । देहाइकजमुत्ताइओ व्व भणिए पुणो भणइ ॥ १९२७ ॥
यत एव तुल्यसाधनानां कर्मनिबन्धनः फलभेदः, अत एवोच्यते-मृत कर्म, मूर्तस्य देहादेवलाधानकारित्वात् , कुम्भवत् , यथा निमित्तमात्रभावित्वेन घटो देहादीनां बलमाधत्ते, एवं कर्मापि, अतो मूर्तमित्यर्थः। अथवा, मूर्त कर्म, मूर्तेन सक्-चन्दना-ऽङ्गनादिना तस्योपचयलक्षणस्य बलस्याधीयमानत्वात् , कुम्भवत्- यथा मूर्तत्वेन तैलादिना वलस्याधीयमानत्वात् कुम्भो मूर्तः, एवं स्रक्चन्दनादिनोपचीयमानत्वात् कर्मापि मूर्तमिति भावः। यदिवा, मूर्त कर्म, देहादेस्तत्कार्यस्य मूर्तत्वात् , परमाणुवत्- यथा घटादेस्तकार्यस्य मूर्तस्य दर्शनात् परमाणवो मूर्ताः, एवं देहादेस्तत्कार्यस्य मूर्तस्य दर्शनात् कर्मापि मूर्तमित्यर्थः । एवं भणिते पुनर्भणति परः ।। किम् ? इत्याह
तो किं देहाईणं मुत्तत्तणओ तयं हवइ मुत्तं । अह सुह-दुक्खाईणं कारणभावादरूवं ति ? ॥ १९२८ ॥
ततः किं देहादीनां कर्मकार्याणां मूर्तानां दर्शनात् तत् कर्म मूर्त भवतु, आहोस्वित् सुख-दुःख-क्रोध-मानादीनां जीवपरिणामभूतानां तत्कार्याणाममूर्तानां दर्शनात् तत् कारणभावनामूर्तमस्तु कर्म ? इत्येवं मूर्तत्वा-ऽमूर्तत्वाभ्यामुभयथापि तत्कार्यदर्शनात् किं मूर्तम् , अमूर्त वा कर्म भवतु ? इति निवेद्यतामिति ॥ १९२८ ॥
एवं प्रेरकेणोक्ते सत्याहनै सुहाईणं हेऊ कम्मं चिय किन्तु ताण जीवो वि । होइ समवाइकारणमियरं कम्म ति को दोसो ? ॥१९२९॥
सुखादीनां कमैंव केवलं कारणं न भवति, किन्तु जीवोऽपि तेषां समवायि कारणं भवति, कर्म पुनरितरदसमवायि कारणं भवतीति को दोषः १ । इदमुक्तं भवति-सुखादेरमूर्तत्वेन समवायिकारणस्य जीवस्यामूर्तत्वमस्त्येव, असमवायिकारणस्य तु कर्मणः सुखाद्यमूर्तत्वेनामूर्तत्वं न भवतीत्यपीति न दोष इति ।। १९२९ ।।
एतस्मादेव तद् मूर्त मूर्तवलाधानतो यथा कुम्भः । देहादिकार्यमूर्तादित इव भाणिते पुनर्भणति ।। १९२७ ।। २ ततः किं देहादीनां मूर्तत्वतस्तद् भवति मूर्तम् । अथ सुख-दुःखादीनां कारणभावादरूपमिति ? ॥ १९२८ ।। ३ न सुखादीनां हेतुः कमैंव किन्तु तेषां जीवोऽपि । भवति समवायिकारणमितरत् कर्मेति को दोषः ।। १९२९ ।।
॥७९॥
Educantata
For Pessoal and Private Use Only
Loading... Page Navigation 1 ... 198 199 200 201 202