Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 199
________________ विशेषा. ॥७९७|| व-पुण्यसंयोग से प्रति विवक्षितं कारणवपर्यायः, तस्मात् कारण समित्यादि' सौम्य ! तुल्या-तुल्यत्वे सर्वगतेऽपि यद् यस्मात् कारणस्य कार्य स्वपर्यायः, तस्मात् कारणं कार्यस्येहानुरूपयुच्यते, शेषस्त्वकार्य रूपः सर्वोऽपि पदार्थः कारणस्य परपर्यायः, इति तं प्रति विवक्षितं कारणमसमानरूपमभिधीयते । आह-ननु कथं प्रस्तुते सुख-दुःखे कारणस्य वपर्यायः । उच्यते-जीव-पुण्यसंयोगः सुखस्य कारणम् , तस्य च सुखं पर्याय एव, दुःखस्यापि जीव-पापसंयोगः कारणम् , अतस्तस्यापि दुःखं पर्याय एव, यथा च सुखं शुभं, कल्याणं, शिवमित्यादीन् व्यपदेशाँल्लभते तथा तत्कारणभूतं पुण्यस्कन्धद्रव्यमपि यथा च दुःखमशुभम् , अकल्याणम् , अशिवमित्यादिसंज्ञाः प्राप्नोति तथा तत्कारणभूतं पापद्रव्यमपि, इति विशेषतोऽत्र पुण्य-पापे सुख दुःखयोरनुरूपकारणत्वेनोक्ते इति ॥ १९२४ ॥ अथ परः प्रेर्य चिकीर्षुस्तदवकाशहेतोः पृच्छति-- 'किं जह मुत्तममुत्तस्स कारणं तह सुहाईणं कम्मं । दिलु सुहाइकारणमन्नाइ जहेह तह कम्मं ? ॥ १९२५ ॥ किं यथा मूर्त नीलादिकममूर्तस्य स्वप्रतिभासिज्ञानस्य कारणं हेतुस्तथा सुख-दुःखयोः पुण्य पापात्मकं कर्मापि मूर्तमेव सत् कारणम् , यथा प्रत्यक्षत एव दृष्टमन्नादिकम् । आदिशब्दात् सक्-चन्दना-ऽङ्गना-हि-विष-कण्टकादिकमिह सुख-दुःखयोर्मूत सत् । | कारणं तद्वत् कर्मापि तयोरिति भावार्थः । ॥ १९२५ ॥ ततः किम् ? इति चेत् । उच्यते-- होउ तयं चिय किं कम्मणा, नजं तुल्लसाहणाणं पि । फलभेदओ सोऽवस्सं सकारणो कारणं कम्मं ॥१९२६॥ ननु तदेव दृष्टमन्नादिकं वस्तु तर्हि सुखादेः कारणमस्तु, किमदृष्टेन तेन कर्मणा परिकल्पितेन, अतिप्रसङ्गान् ? । तदेतद् न, यद् यस्मात् तुल्यान्यन्नादीनि साधनानि येषां ते तुल्यसाधनाः पुरुषास्तेषामपि फले सुख-दुःखलक्षणे कार्यभेदः फलभेदो | महान् दृश्यते, तुल्येऽप्यन्नादिके भुक्ते कस्याप्याबादः, अन्यस्य तु रोगाद्युत्पत्तिदृश्यत इत्यर्थः। यश्चेत्थं तुल्यान्नादिसाधनानामपि फलभेदः, सोऽवश्यमेव सकारणः, निष्कारणत्वे नित्यं सत्त्वा-ऽसत्त्वप्रसङ्गात् । यच्च तत्कारणं तददृष्टं कम, इति न तत्कल्पनाऽऽनयेमिति ।। १९२६ ॥ ॥७९७|| , किं यथा मूर्तममूर्तस्य कारणं तथा सुखादीनां कर्म । दृष्टं सुखादिकारणमन्नादि यथेह तथा कर्म । ।। १९२५ ।। २ भवतु तदेव किं कर्मणा, न यत् तुल्यसाधनानामपि । फलभेदतः सोऽवश्यं सकारणः कारणं कर्म ॥ १९२६ ।। in Education Internationa Forsonal and Private Use Only A w w.jainetbrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202