Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥७९० ॥
Jain Education internationa
इत्यभिमताः । अथ परस्यैवंभूता मतिर्भवेत् अत्यर्थं दुःखिता ये तिर्यग्- मनुष्यास्त एवोत्कृष्टपापफलभोगित्वाद् नारकव्यपदेशभाजो भविष्यन्ति, किमदृष्टनारककल्पनया ? इति । तदेतद् न, यतोऽतिदुःखितानामपि तिर्यग्-मनुष्याणां यद् दुःखं तदमरसौख्यप्रकर्षसदृश प्रकर्षवद् न भवति । इदमुक्तं भवति- येषामुत्कृष्टपापफलभोगस्तेषां संभवद्भिः सर्वैरपि प्रकारैर्दुःखेन भवितव्यम्, न चैवमतिदुःखि तानामपि तिर्यगादीनां दृश्यते, आलोक-तरुच्छाया-शीतपवन-सरित् सरः- कूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात्- छेदनभेदन - पाचन- दहन-दम्भन-वज्र-कण्टक शिलास्फालनादिभिश्व नरकप्रसिद्धैः प्रकारैर्दुःखस्यादर्शनात्, इत्यादि प्रागुक्तानुसारेण स्वयमेवाभ्यूह्य वाच्यमिति । आगमार्थश्चायमवगन्तव्य इति ।
" सततमनुबद्धमुक्तं दुःखं नरकेषु तीत्रपरिणामम्। तिर्यक्षूष्ण-भय-क्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ १ ॥ सुख-दुःखे मनुजानां मनः शरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ २ ॥'
इति ।। १८९९ ।। १९०० ॥
प्रागनेकशोऽभिहितानुमानतोऽपि नारकान् साधयितुमाह-
सच्चं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व । सव्वण्णुत्तणओ वा अणुमयसव्वष्णुवयणं व ॥ १९०१ ॥ 'नारकाः सन्ति' इति सत्यमकम्पित ! इदम् मद्वचनत्वात्, यथाऽवशेषं त्वत्संशयादिविषयं मद्वचनम् । अथवा, 'सर्वज्ञवचनत्वात्' इत्येव हेतुर्वक्तव्यः, त्वदनुमतमनु- जैमिन्यादिसर्वज्ञवचनवदिति । १९०१ ॥
अपिच,
-राग-दोस- मोहाभावाओ सच्चमणइवाई च । सव्वं चिय मे वयणं जाणयमज्झत्थवयणं व ॥१९०२॥ मागनेकधा व्याख्यातेयम् ॥। १९०२ ॥ अकम्पिताभिप्रायमाशङ्कयात्मनि सर्वज्ञतादिसाधनाय भगवानाह -
१ सत्यं चेदमकम्पित ! मम वचनादव शेषवचनमिव । सर्वशत्वतो वाऽनुमतसर्वज्ञवचनमिव ॥ १९०१ ॥ २ गाथा १५७८ ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७९० ॥
www.jaineibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202