Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 191
________________ विशेषा. ॥७८९॥ 'वा' इत्यथवा, न प्रत्यक्षमिन्द्रियजं ज्ञानमिति सैव प्रतिज्ञा, पूर्वोपलब्धश्चासौ संबन्धश्च पूर्वोपलब्धसंबन्धस्तत्स्मरणाज्जायमानत्वात् , धूमादनलज्ञानवत् । तथाहि- 'घटोऽयं, पूर्वसंकेतकाल एवंभूत एव पदार्थे प्रत्ययिताभिज्ञपुरुषाद् घटसंकेतस्य मया गृहीतत्वात इति पूर्वोपलब्धसंबन्धस्मरणादेव सर्वस्यापि घटादिग्राहकमिन्द्रियज्ञानमुपजायते; अन्यथा नालिकेरद्वापाद्यायातस्याप्यविशेषेणतत् स्यात् । अभ्यास-पाटवादिभ्यश्चाशुकारितयेन्द्रियज्ञानप्रवृत्तेः सर्वतद् न लक्ष्यत इति । अथवा, प्रत्यक्षमिन्द्रियजं ज्ञानम् , पूर्वप्रतिपादितव्युत्पक्याऽक्षस्य जीवस्य स्वव्यतिरिक्तनिमित्तविशेषाज्जायमानत्वात् , धूमादग्निज्ञानवत् । स्वव्यतिरिक्तानि च निमित्तान्यक्षस्य जीवस्य करणानीन्द्रियाणि मन्तव्यानि । यच्च प्रत्यक्षं न तज्जीवस्य निमित्तान्तराज्जायते, किन्तु जीवस्तत्र साक्षादेव ज्ञेयं पश्यति, यथाऽवधिमनःपर्याय-केवलज्ञानेष्विति ।। १८९७ ॥ अत एवाह 'केवल-मणो-हिरहियस्स सव्वमणुमाणमेत्तयं जम्हा । नारगसब्भावम्मि य तदत्थि जं तेण ते संति ॥१८९८॥ केवल-मनःपर्याया-ऽवधिज्ञानरहितस्य प्रमातुः संबन्धि सर्वमपि ज्ञानं यस्मादनुपानमात्रमेव, परोक्षार्थविषयत्वात् । केवलादिज्ञानत्रयं तु वस्तुसाक्षात्कारित्वात् प्रत्यक्षम् । तदेवमनुमानं प्रत्यक्षं च यस्माद् नारकसद्भावे साध्ये विद्यत एव, तेन ते नारकाः सन्तीति प्रतिपद्यस्व । तत्र प्रत्यक्षं मदीयमेव केवलज्ञानम् ।। १८९८ ।। अनुमानं त्विदम्पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेस व्व। सन्ति धुवं तेऽभिमया नेरइया, अह मई होजा ॥१८९९।। अच्चत्थदुक्खिया जे तिरिय-नरा नारगति तेऽभिमया। तं न जओ सुरसोक्खप्पगरिससरिसं नतंदुक्खं ॥१९००॥ प्रकृष्टस्य पापफलस्य भोगिनः केचिद् ध्रुवं सन्ति, 'कम्मउ त्ति' कर्मफलत्वात् तस्येत्यर्थः, अवशेषवदिति- यथा जघन्यमध्यमपापफलभोगिनः शेषास्तिर्यङ्-नरा विद्यन्त इत्यर्थ इति दृष्टान्तः । 'तेऽभिपया नेरइय त्ति' ये प्रकृष्टपापफलभोगिनस्ते 'नारकाः , केवल-मनो-बधिरहितस्य सर्वमनुम्ममात्रकं यस्मात् । नरकसद्भावे च तदस्ति यत् तेन ते सन्ति ।।१८९८॥ २ पापफलस्य प्रष्टस्य भोगिनः कर्मतोऽवशेष इव । सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् ॥१८९९ ॥ अत्यधंदुःखिता ये तिर्यग्-नरा नारका इति तेऽभिमताः । तद् न यतः सुरसौख्यप्रकर्षसदर्श न तद् दुःखम् ॥ १९.०॥ 11७८९॥ For Personal and Oy

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202