Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 190
________________ विशेषा० ७८८|| Jain Educationa International दुरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदियभिन्नो नाया पंचगवक्खोवला वा ॥ १८९४ ॥ इन्द्रियेभ्यो भिन्नो ‘नाय त्ति' ज्ञाता जी तदुपरमेऽपीन्द्रियोपरमेऽपि तद्द्द्वारोपलब्धार्थानुस्मरणात्, तद्व्यापारेऽपीन्द्रियव्यापारेऽप्यन्यमनस्कतायामनुपलम्भात्; यथा पञ्चभिर्गवाक्षैरुपलब्धा वस्तूपलम्भकस्तेभ्यो भिन्न इति ।। १८९४ ॥ अथेन्द्रियप्रत्यक्षमतीन्द्रियप्रत्यक्षाद् बहु पश्यति । तदयुक्तम् । कुतः १ इत्याह- जो पुण अणिदिउ च्चिय जीवो सव्वप्पिहाणविगमाओ । सो सुबहुयं वियाणइ अवणीयघरो जहा दट्ठा ।। १८९५॥ यः पुनरनिन्द्रिय एव केवलज्ञानसंपन्नो जीवः स इन्द्रियज्ञानवतो जीवात् सुबहु विजानातीति प्रतिज्ञा, सर्वपिधानविगमात् - सर्वावरणक्षयादित्यर्थः, यथा पञ्चगवाक्षगृहस्थित पुरुषात् सर्वथाऽपनीतगृहः सर्वत एवाssकाशीकृतप्रदेशे स्थितो द्रष्टा पुरुष इति ।। १८९५ ।। अपिच, इन्द्रियजं ज्ञानं न भवत्येव प्रत्यक्षम् । कुतः १ इत्याह- न हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणाओ । कयगत्तओ व सिद्धी कुंभाणिच्चत्तमेत्तस्स || १८९६ ॥ न भवति प्रत्यक्षम् 'इन्द्रियजं ज्ञानम्' इति प्रक्रमाल्लभ्यते । चक्षुरादीन्द्रियस्य रूपादिपरिच्छेदशक्तिविशेषरूपेण धर्मान्तरेण हेतुभूतेन तस्यानन्तधर्मात्मकस्य वस्तुनो यद् रूपादिकमेकं धर्ममात्रं तस्य ग्रहणादिति हेतुः । किं तद् यथा न प्रत्यक्षम् ? इत्याह- यथा कृतकत्वाद् घटानित्यत्वमात्रसिद्धिलक्षणमनुमानमित्येष दृष्टान्तः । इह च यथा परस्मात् साध्यसिद्धौ नानुमानं प्रत्यक्षम् तथेन्द्रियजमपि विज्ञानमित्येतावान् भावार्थ इति ।। १८९६ ।। प्रकारान्तरेणापीन्द्रियजज्ञानस्याप्रत्यक्षतां साधयन्नाह- व्वोवलद्धसंबंधसरणओ वानलो व्व धूमाओ । अव निमित्तंतरओ निमित्तमक्खस्स करणाई ॥ १८९७॥ १ तदुपरमेऽपि स्मरणतस्तद्व्यापारेऽपि नोपलम्भात् । इन्द्रियभितो ज्ञाता पञ्चगवाक्षोपलब्धेव ।। १८९४ ॥ २ यः पुनरनिन्द्रिय एव जविः सर्वपिधानविगमात् । स सुबहुकं विजानात्यवनीतगृहो यथा दृष्टा ।। १८९५ ।। ३ न हि प्रत्यक्षं धर्मान्तरेण तद्धर्ममात्रग्रहणात् । कृतकत्वत इव सिद्धिः कुम्भानित्यत्वमात्रस्य ।। १८९६ ॥ ४ पूर्वोपलब्धसंबन्धस्मरणतो वाऽनल इव धूमात् । अथवा निमित्तान्तरतो निमित्तमक्षस्य करणानि ॥ १८९७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । 1122611 www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202