Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥७८६ ॥
Jain Educations Internation
किं नारकाः सन्ति, नवा ? इति त्वं मन्यसे । अयं च तव संशयो विरुद्ध वेदपदश्रवणनिबन्धनः तथाहि - "नारको वै एष जायते यः शूद्रान्नमश्नाति" इत्यादि - एष ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यर्थः, इत्यादीनि वाक्यानि नारक सत्ताप्रतिपाद का नि; "न ह वै प्रेत्य नारकाः सन्ति" इत्यादीनि तु नारकाभावप्रतिपादकानि । तत्रैषां वेदपदानामर्थं चशब्दाद् युक्तिहृदयं च त्वं न जानासि, यत एतेषामयं वक्ष्यमाणोऽर्थ इति ।। १८८७ ॥
अत्र भाष्यम् -
तं मन्नसि पञ्चक्खा देवा चंदादओ तहन्ने वि । विज्जा - मंतोवायणफलाइ सिद्धीए गम्मंति ॥ १८८८॥
जे पुण सुइमेत्तफला नेरइय त्ति किह ते गहेयव्या । सक्खमणुमाणओ वाऽणुवलंभा भिन्नजाईया ? ॥१८८९ ॥ हे आयुष्मन्नकम्पित ! त्वमेवं मन्यसे - देवास्तावच्चन्द्रादयः प्रत्यक्षप्रमाणसिद्धा एव, अन्ये त्वमत्यक्षा अपि विद्या मन्त्रोपयाचितकादिफलसिद्धयाऽनुमानतो गम्यन्ते ये पुनः 'नारकाः' इत्यभिधानमात्ररूपा श्रुतिरेव फलं येषां न पुनस्तदभिधायकशब्दव्यतिरिक्तोऽर्थः ते साक्षात् अनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यग्-नरा-मरेभ्यः सर्वथा भिन्नजातीयाः कथं 'सन्ति' इति ग्रहीतव्याः, खरविषाणवत् । इति ।। १८८८ ।। १८८९ ।।
अथ भगवानुत्तरमाह-
मैह पच्चक्खत्तणओ जीवाई य व्व नारए गिण्ह । किं जं सपच्चक्खं तं पच्चक्खं नवरि इक्कं ? || १८९० || जं कासइ पच्चक्खं पञ्चक्खं तं पि घेप्पए लोए । जह सीहाइदरिसणं सिद्धं न य सव्वपच्चक्खं ॥ १८९१ ॥
हे आयुष्मन्नकम्पित ! 'साक्षादनुपलभ्यमानत्वात्' इत्यसिद्धो हेतुः, यतोऽहं केवलप्रत्यक्षेण साक्षादेव पश्यामि नारकान् ततो मत्प्रत्यक्षत्वात् 'सन्ति' इति गृहाण प्रतिपद्यस्व नारकान् जीवा-जीवादिपदार्थवत् । अथैवं मन्यसे - ममाप्रत्यक्षत्वात् कथमेतान्
त्वं मन्यसे प्रत्यक्षा देवाश्चन्द्रादयस्तथान्येऽपि । विद्या मन्त्रोपायन फलादिसिद्धेर्गम्यन्ते ॥ १८८८ ॥
ये पुनः श्रुतिमात्रफला नैरयिका इति कथं ते ग्रहीतव्याः साक्षादनुमानतो वाऽनुपलम्भाद् भिन्नजातीयाः १ ॥१८८९ ॥ २ घ. ज. 'अत्र भ' ३ मम प्रत्यक्षत्वतो जीवादींश्रेव नरकान् गृहाण । किं यत् स्वप्रत्यक्षं तत् प्रत्यक्षं नवरमेकम् ? ॥ १८९० ॥
यत् कस्यचित्प्रत्यक्षं प्रत्यक्षं तदपि गृह्यते लोके । यथा सिंहादिदर्शनं सिद्धं न च सर्वप्रत्यक्षम् ॥ १८९१ ॥ ४ प. ज. झ. 'रि एक' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
|||७८६||
www.jainelibrary.org
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202