Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
Sta
गृह्णामि ? । ननु दुरभिप्रायोऽयम् , यतः किं यत् खस्यात्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्षमुच्यते ? इति काका नेयम् । ननु यदपि । विशेषा. कस्यचित् प्रत्ययितपुरुषस्यान्यस्य प्रत्यक्षं तदपि 'प्रत्यक्षम्' इति गृह्यते व्यवहियते लोके; तथाहि- सिंह-सरभ-हंसादिदर्शनं सिद्धं ।
प्रसिद्ध लोके, न च सिंहादयः सर्वजनप्रत्यक्षाः, देश-काल ग्राम-नगर-सरित्-समुद्रादयश्च न सर्वेऽपि भवतः प्रत्यक्षाः, अथ चान्यस्यापि ॥७८७॥
| प्रत्यक्षास्ते प्रत्यक्षतया व्यवह्रियमाणा दृश्यन्ते । अतो मत्प्रत्यक्षा नारकाः किमिति प्रत्यक्षतया न व्यवहियन्ते ? इति ॥१८९०॥१८९१॥ ___ अथाभिप्रायान्तरमाशङ्कय परिहरन्नाह
अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ?। उवयारमेत्तओ तं पच्चक्खमणिंदियं तत्थं ॥१८९२॥
अथवा, किं यदिन्द्रियाणां प्रत्यक्षं तदेव प्रत्यक्षमिष्यते भवता, मदीयं तु प्रत्यक्षं नाभ्युपगम्यते, अतीन्द्रियत्वात् ? । ननु महानयं विपर्यासः, यस्मादुपचारमात्रत एव तदिन्द्रियप्रत्यक्षं प्रत्यक्षतया व्यवहियते- यथाऽनुमाने बाह्यधूमादिलिङ्गद्वारेण बाह्यमग्न्यादि वस्तु ज्ञायते, नैवमत्र, तत उपचारात् प्रत्यक्षमिव प्रत्यक्षमुच्यते । परमार्थतस्तु- इदमपि परोक्षमेव, यतोऽक्षो जीवः, स चानुमानवदत्रापि वस्तु साक्षाद् न पश्यति, किन्त्विन्द्रियद्वारेणैव, ततोऽतीन्द्रियमेव तथ्यं प्रत्यक्षमवगन्तव्यम् , तत्र जीवेन साक्षादेव वस्तुन उपलम्भादिति ॥ १८९२ ॥
अत्राह- नन्विन्द्रियमत्यक्षे यद्यपि जीवः साक्षाद् वस्तु न जानाति, तथापीन्द्रियाणि साक्षात् तज्ज्ञास्यन्ति, ततश्चेन्द्रियाणां ERA प्रत्यक्षमिन्द्रियप्रत्यक्षं भविष्यति, इत्याशङ्कयाह
मुत्ताइभावओ नोवलडिमंतिदियाई कुंभो व्व । उवलंभद्दाराणि ताई जीवो तदुवलद्दा ॥ १८९३ ॥
नोपलब्धिमन्तीन्द्रियाणि- न वस्तुज्ञायकानीत्यर्थः, पुद्गलसंघातरूपत्वेन मूर्तत्वात् , आदिशब्दादचेतनत्वात् , कुम्भवत् । नवरमुपलम्भस्य श्रोत्रादिज्ञानस्य द्वाराणि भवन्त्यमूनि, गवाक्षवत् , तत्सापेक्षस्यैव क्षयोपशमस्य प्रबोधात् । जीव एव च तदुपलब्धा वस्तूपलब्धा ॥१८९३ ॥ जीवस्य, इन्द्रियाणां चाभेद एवेति चेत् । नैवम् । कुतः? इत्याह
C७.७॥ , अथवा यदिन्द्रियाणां प्रत्यक्षं किं तदेव प्रत्यक्षम् ? । उपचारमात्रतस्तत् प्रत्यक्षमनिन्द्रिय तथ्यम् ॥ १८९२ ॥ २ मूतांदिभावतो नोपलब्धिमन्तीन्द्रियाणि कुम्भ इव । उपलम्भद्वाराणि तानि जीवस्तदुपलब्धा ॥ १८९५ ॥
POS
Sarosa
For Personal and Private Use Only
Jam Education International
www.janelbrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202