Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥७८५॥
'जमित्यादि' पूर्वार्धस्यायमर्थः- उक्थषोडशिप्रभृतिक्रतुभिर्यथाश्रुति “यम-सोम-सूर्य-सुरगुरु-स्वाराज्यानि जयति" इत्यादीनि देवास्तित्वसूचकानि वेदवाक्यानि देवाभावे वृथैव स्युः । इह चोक्थषोडशिप्रभृतयो यज्ञविशेषा मन्तव्याः । सयूपो यज्ञ एव हि क्रतुरुच्यते, यूपरहितस्तु दानादिक्रियायुक्तो यज्ञ इति । स्वः- स्वर्गः, तत्र राज्यानि जयति- उपार्जयतीत्यर्थ इति । तथा, मन्त्रैरिन्द्रादीनामाहानं देवास्तित्व एवोपपद्यते, अन्यथा वृथैव स्यात् । इन्द्रादीनां मन्त्रपदैराहानमेवमवगन्तव्यम्- “इन्द्र ! आगच्छ मेधातिथे मेपवृषण" इत्यादि । तस्माद् युक्तितो वेदवाक्येभ्यश्च 'सन्ति देवाः' इति स्थितम् । तदेवं छिन्नो मौर्यपुत्रस्य भगवता संशयः ॥१८८३॥
ततः किं कृतवानसौ ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुडोहि सह खंडियसएहि ॥१८८४॥ व्याख्या पूर्ववत् । इत्येकविंशतिगाथार्थः ।। १८८४ ।।
॥इति सप्तमो गणधरवादः समाप्तः ॥
अष्टमगणधरवक्तव्यतामाह
ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८८५॥ व्याख्या तथैव, नवरमकम्पितनामा द्विजोपाध्यायोत्र वक्तव्यः॥ १८८५ ।। ततः किम् ? इत्याह
आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तण य सब्वण्णू सव्वदरिसी णं ॥१८८६॥ व्याख्याता तथैवेति ॥ १८८६ ॥ नाम-गोत्राभ्यामाभाष्य ततोऽसौ भगवता किमुक्तः ? इत्याह
*किं मण्णे नेरइया अस्थि नत्थि त्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ १८८७ ॥ १ गाथा १८६३ । २ तान् प्रजाजितान् श्रुत्वाऽकम्पित आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १८८५॥ ३ गाथा १६०९।
४ किं मन्यसे नैरयिकाः सन्ति न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८॥
॥७८५
Jan Education inte
Forson and Private Us Only
www.jaineibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202