Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥७८३॥
नवरं जिनजन्म-दीक्षा-केवल-निर्वाणमहोत्सवनियोगेन तत्कर्तव्यतानियमेनेह देवा आगच्छेयुः । तत्र सौम्य ! केचिदिन्द्रादयो । निजभक्त्या समागच्छन्ति, केचित् तु तदनुवृत्त्या, अन्ये संशयव्यवच्छेदार्थम् , अपरे तु पूर्वभविकपुत्र-मित्राद्यनुरागात् । समयनिबन्धः- प्रतिबोधादिनिमित्तः संकेतनिश्चयः, तस्माच्च केचिद् देवा इहागच्छन्ति । अन्ये तु महासत्त्वसाध्वादितपोगुणसमाकृष्टाः, केचित्तु । | पूर्ववैरिकनरगणपीडार्थम् , अपरे तु पूर्वसुहृत्-पुत्राद्यनुग्रहार्थम् , केचित्तु देवाः कन्दर्पादिभिरिहागच्छन्ति । आदिशब्दात् साध्वादिपरीक्षाहेतोरिति द्रष्टव्यमिति । तदेवं निरूपितं देवानामत्रागमनकारणम् , अनागमनकारणं च ।। १८७६ ॥१८७७॥ ____ अथ देवसिद्धावन्यदपि कारणमाह
जाइस्सरकहणाओ कासइ पच्चक्खदरिसणाओ य । विजा-मंतो-वायणसिद्धीओ गहविगाराओ ॥१८७८॥ उक्किट्ठपुण्णसंचयफलभावाओऽभिहाणसिद्धीओ । सव्वागमसिद्धीउ य संति देव त्ति सद्धेयं ॥ १८७९ ॥
'सन्ति देवा इत्येतत् श्रद्धेयम्' इति प्रतिज्ञा, जातिस्मरणप्रत्ययितपुरुषेण कथनात् , नानादेशविचारिप्रत्ययितपुरुषावलोकितकथितविचित्रबृहद्देवकुलादिवस्तुवत् ; तथा, कस्यापि तपःप्रभृतिगुणयुक्तस्य प्रत्यक्षदर्शनप्रवृत्तेश्च- केनचित् प्रत्यक्षप्रमाणेनोपलम्भादित्यर्थः, दूरविप्रकृष्टनगरादिवत् , तथा, विद्या-मन्त्रोपयाचनेभ्यः कार्यसिद्धेः, प्रसादफलानुमितराजादिवत् ; तथा, 'गहविगाराउ त्ति' अत्र प्रयोगः- ग्रहाधिष्ठितपुरुषदेहो जीवव्यतिरिक्तादृश्यवस्त्वधिष्ठातृकः, पुरुषासंभाव्यविकारवत्क्रियादर्शनात् , संचरिष्णुयन्त्रव्यतिरिक्तमध्यप्रविष्टादृश्यमानपुरुषाधिष्ठितयन्त्रवत् ; तथा, तपो-दानादिक्रियासमुपार्जितोत्कृष्टपुण्यसंभारफलसद्भावात् , उत्कृष्टपापप्राग्भारफलसद्भावनिश्चितनारकवत, एतच प्रागेव भावितम् । तथा, 'देवाः' इति यदभिधानं ततोऽपि च देवानां सिद्धिः । एतच्चानन्तरगाथायां व्यक्तीकरिष्यते । तथा, सर्वे च त आगमाश्च सर्वागमास्तेष्वविप्रतिपत्त्या सिद्धत्वाच सन्ति देवा इति ॥१८७८॥१८७९।।
यदुक्तम्- 'अभिहाणसिद्धीउ त्ति' तद् भावयन्नाह
देव त्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मई मणुउ च्चिय देवो गुण-रिद्धिसंपण्णो ॥१८८०॥
७८३॥
जातिस्मरकथनात् कस्यचित् प्रत्यक्षदर्शनाच्च । विद्या-मन्त्रोपयाचनसिनेमेहविकारात् ॥ १८७८ ॥
उत्कृष्टपुण्यसंचयफलभावादभिधानसिद्धेः । सर्वांगमसिद्धेश्च सन्ति देवा इति श्रद्धेयम् ॥ १४७९ ॥ २देवा इति सार्थकमिदं शुद्धत्वतो घटाभिधानमिव । अथवा मतिर्मनुज एवं देवो गुण-विसंपनः ॥ १८८०॥
Jan Education Internati
For Personal and Private Use Only
www.janeitrary.org
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202