Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 184
________________ विशेषाः ॥७८२॥ PARASIRAT इह स्वकृतमकृष्टपापफलभोगिनस्तावत् कचिद् नारकाः प्रतिपत्तव्यास्ते च यदि प्रपन्नाः, 'तेणं ति' तर्हि तेनैव प्रकारेण स्वोपार्जितसुष्ठुबहुकपुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः । अत्राह- नन्विहैवातिदुःखितनरास्तिर्यश्चश्वातिदुःखिताः प्रकृष्टपापफल-बृहद्वत्तिः । भुजो भविष्यन्ति, तथा, मनुष्या एवातिसुखिताः प्रकृष्टपुण्यफलभुजो भविष्यन्ति, किमदृष्टनारक-देवपरिकल्पनया ? इति । तदयुक्तम् , प्रकृष्टपापफलभुजां सर्वप्रकारेणापि दुःखेन भवितव्यम् , न चातिदुःखितानामपि नर-तिरश्चां सर्वप्रकारं दुःखं दृश्यते, सुखदपवनाऽऽलोकादिसुखस्य सर्वेषामपि दर्शनात् । प्रकृष्टपुण्यफलभुजामपि सर्वप्रकारेणापि सुखेन भवितव्यम् , न चेहातिसुखितानामपि नराणां सर्वप्रकारं सुखमवलोक्यते, पूतिदेहोद्भवस्य रोग-जरादिप्रभवस्य च दुःखस्य तेषामपि सद्भावात् । तस्मात् प्रकृष्टपापनिबन्धनसर्वेषकारदुःखदिनो नारकाः, प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनो देवाश्चाभ्युपगन्तव्या एवेति ॥ १८७४ ॥ ननु यदि देवाः सन्ति, तर्हि स्वच्छन्दचारिणोऽपि किमित्यत्र ते कदाचिदपि नागच्छन्ति ? इत्याह संकेतदिव्वपिम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न एंति सुरा ॥१८७५॥ नागच्छन्तीह सदैव सुरगणाः, संक्रान्तदिव्यप्रेमत्वात् , विषयप्रसक्तत्वात् , प्रकृष्टरूपादिगुणकामिनीप्रसक्तरम्यदेशान्तरगतपुरुषवत् । तथा, असमाप्तकर्तव्यत्वात् , बहुकर्तव्यताप्रसाधननियुक्तविनीतपुरुषवत् । तथा, अनधीनं मनुजानां कार्य येषां तेऽनधीनमनुजकार्याः, तद्भावस्तत्त्वं तस्माद् नेहागच्छन्ति सुराः, अनभिमतगेहादौ निःसङ्गयतिवदिति । तथा, अशुभत्वाद् नरभवस्य तद्गन्धा-8 सहिष्णुतया नेहागच्छन्ति देवाः, स्वपरित्यक्तकडेवरवदिति ।। १८७५ ॥ ___ तत् किं सर्वथा तंत्र नागच्छन्ति ? । नैवम् । अत एवाहनेवरि जिणजम्म-दिक्खा-केवल-निव्वाणमहनिओगेणं । भत्तीए सोम्म ! संसयविच्छेयत्थं व एजहण्हा ॥१८७६॥ पुव्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडा-ऽणुग्गह-कंदप्पाईहिं वा केइ ॥ १८७७ ॥ , संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ता असमाप्तकर्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नागच्छन्ति सुराः ॥ १८७५ ॥ २ नवरं जिनजन्म-दीक्षा केवल-निर्वाणमहनियोगेन । भक्त्या सौम्य ! संशयविच्छेदार्थ पैयुरिहाहाय ॥ १८७६ ॥ पूर्वानुरागतो वा समयनिवन्धात् तपोगुणाद् वा । नरगणपीडा-ऽनुग्रह-कन्दादिभिर्वा केचित् ॥ १८७७॥ ॥७८२।। Jan Education Internation For Personal and Private Use Only ARww.janelbrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202