Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 174
________________ बृहद विशेषा मपि तसा यथा हिम सति लाया चेष्टा, ततो ॥७७२॥ ननु कथं 'से' तस्याकर्मणो जीवस्यैतावद् दूरमितो गतिः प्रवर्तते ?, । कर्मनिवन्धना हि जीवानां सर्वापि चेष्टा, ततो विहायोगत्यादिकर्माभावेऽपि गतिचेष्टायामतिप्रसङ्गः पामोति' । अत्रोच्यते- 'कम्मलहुय त्ति' कर्मापगमे सति लाघवात् समयमेकं तद्गतिप्रवृत्तिरित्यर्थः, तथागतिपरिणामात्- कर्मक्षये सिद्धत्ववदपूर्वगतिपरिणामलाभादित्यर्थः, यथा हि समस्तकर्मक्षयादपूर्व सिद्धत्वपरिणामं जीवः समासा. दयति, तथा_गतिपरिणाममपीति भावः । आदिशब्दादपरमपि तद्गतिकारणं समयभणितमिदमवगन्तव्यम् , तद्यथा 'लाउ य एरंडफले अग्गी धूमो य इसु धणुविमुक्को । गइ पुव्वपओगेणं एवं सिद्धाण वि गई उ ॥ १॥ १८४४ ॥ अथान्यत् प्रर्यमाशय परिहरति "किं सक्किरियमरूवं मंडिय! भुवि चेयणं च किमरूवं ?।जह से विसेसधम्मो चेयन्नं तह मया किरिया ॥१८४५॥ आह- नन्वाकाश-कालादयोऽमूर्ता निष्क्रिया एव प्रसिद्धाः, तत् किं नाम त्वयाऽरूपममूर्त सद् वस्तु सक्रियं दृष्ट, येन मुक्तात्मनः सक्रियत्वमभ्युपगम्यते ?- ननु निष्क्रिय एव मुक्तात्मा पामोति, अमृतत्वात , आकाशवदिति भावः । अत्रोच्यते--- मण्डिक! त्वमप्येतत् कथय,- भुवि किमरूपं सद्वस्तु चेतन वीक्षितम् , येन मुक्तात्मा चेतनोऽभ्युपगम्यते ?- अमूर्तत्वादचेतन एवायं मामोति, आकाशवदिति । तस्माद् यथा 'से' तस्य जीवस्यारूपेभ्य आकाशादिभ्यस्तद्रूपत्वे समानेऽन्योऽपि चैतन्यलक्षणो विशेषधर्मः समस्ति, तथा क्रियापि मता,- सक्रियत्वमपि विषेषधर्मोऽस्तु, को विरोधः ? इति भावः ।। १८४५ ॥ यच्चोक्तम्- 'निष्क्रियो मुक्तात्मा, अमूर्तत्वात् तदनैकान्तिकमेव, प्रतिबन्धाभावादित्याह-। अथवा, मुक्ता-ऽमुक्तविशेषमपहाय सामान्येनात्मनः सक्रियत्वं साधयन्नाह--- __कत्ताइत्तणओ वा सक्किरिओऽयं मओ कुलालो व्व । देहप्फंदणओ वा पच्चक्खं जंतपुरिसो व्व ॥ १८४६ ॥ ____ अथवा, सक्रियोऽयमात्मा, कर्तृत्वात् , कुलालवत् । आदिशब्दाद् 'भोक्तृत्वात्' इत्यादि वाच्यम् । अथवा, सक्रिय आत्मा, प्रत्यक्षत एव देहपरिस्पन्ददर्शनात , यन्त्रपुरुषवदिति ।। १८४६ ॥ १ घ. अ. 'ति क'। २ अलाबु चैरण्डफलमग्निधूमश्चेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणवं सिद्धानामपि गतिस्तु ॥ १॥ ३ घ, ज, 'धूमे य' । ४ घ.ज. 'मुके ग'। ५ किं सक्रियमरूपं मण्डिक ! भुवि चेतनं च किमरूपम् ? । यथा तस्य विशेषधर्मश्चैतन्यं तथा मता क्रिया ॥ १८४५ ।। ६ कादित्वतो वा सक्रियोऽयं मतः कुलाल इव । देहस्पन्दनतो वा प्रत्यक्ष यन्त्रपुरुष इव ।। १८४६ ।। ||७७२।। Educ a tion For Personal and Private Use Only AMw iaty

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202