Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 177
________________ विशेषा० बृहद्वत्तिः। ॥७७५|| DNDARA लोगविभागाभावे पडिघायाभावओऽणवत्थाओ। संववहाराभावो संबंधाभावओ होजा ॥ १८५३ ।। यस्मादुक्तप्रकारेणास्त्यलोकः, तस्मादलोकास्तित्वादेवावश्यं लोकपरिच्छेदकारिभ्यां धर्मा-ऽधर्मास्तिकायाभ्यां भवितव्यम् अन्यथाऽऽकाशे सामान्ये सति 'अयं लोकः' 'अयं चालोकः' इति किंकृतोऽयं विशेषः स्यात् । तस्माद् यत्र क्षेत्रे धर्मा-ऽधर्मास्तिकायौ वर्तेते, तल्लोकः, शेषं त्वलोक इति लोका-ऽलोकव्यवस्थाकारिणौ धर्मा-ऽधर्मास्ति कायौ विद्यते इति । 'लोगेत्यादि' यदि हि धर्माऽधर्माभ्यां लोकविभागो न स्यात् , ततो लोकविभागाभावेऽविशिष्ट एव सर्वस्मिन्नप्याकाशे गतिपरिणतानां जीवानां पुद्गलानां च प्रतिघाताभावेन तद्गत्यवस्थानाभावादलोकेऽपि गमनात् , तस्य चानन्तत्वात् तेषां परस्परं संवन्धो न स्यात् । ततश्चौदारिकादिकार्मणवर्गणापर्यन्तःद्गलकृतो जीवानां बन्ध-मोक्ष-सुख-दुःख-भवसंसरणादिव्यवहारो न स्यात् । जीवस्य च जीवेन सहान्योन्यमीलनाभावात् तत्कृतोऽनुपग्रहो-पघातादिव्यवहारो न स्यादिति ॥ १८५२ ॥ १८५३ ॥ __ततः किम् ? इत्याह'निरगुग्गहत्तणाओ न गई परओ जलादिव झसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिमाणो ॥१८५४॥ ततो लोकात् परतोऽलोके जीव-पुद्गलानां न गतिः, निरनुग्रहत्वात्- तत्र गत्यनुग्रहकर्तुरभावादित्यर्थः, यथा जलात् परतो झषस्य मत्स्यस्य गतिन भवति, उपग्राहकाभावादिति । यश्चात्र जीव-पुद्गलगतेरनुग्रहकर्ता, स लोकपरिमाणो धर्मास्तिकाय इति ॥१८५४॥ तत्र प्रयोगमाह अत्थि परिमाणकारी लोगस्स पमेयभावओऽवस्सं । नाणं पिव नेयस्सालोगत्थित्ते य सोऽवस्सं ॥ १८५५।। अस्ति लोकस्य परिमाणकारी, प्रमेयत्वात् , ज्ञानमिव ज्ञेयस्य । अथवा, जीवाः पुद्गलाच लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयत्वात् , यथा शाल्यादीनां प्रस्थः, यश्चेह परिमाता स धर्मास्तिकायः, स चावश्यमलोकस्यास्तित्व एव युज्यते, नान्यथा, आकाशस्य सर्वत्राविशिष्टत्वात् । तस्माल्लोकाग्रे सिद्धस्यावस्थानमिति प्रस्तुतम् ।। १८५५ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थातः । संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ १८५३ ॥ २ निरनुग्रहत्वाद् न गतिः परतो जलादिव झषस्य । यो गमनानुग्रहीता स धर्मो लोकपरिमाणः ॥ १८५४ ॥ । अस्ति परिमाणकारी कोस्य प्रमेषभावतोऽहम् । ज्ञानमिव ज्ञेयस्यालोकास्तित्वे च सोऽवश्यम् ॥ १८५५ ॥ TaTolarorasoo GAONDHADAR ७७५|| Jan Education internations For Person and Private Use Only ROMww.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202