Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 176
________________ विशेषा० ॥७७४ ॥ Jain Educationa Internationa 'किं सिद्धालय परओ, धम्म विरहाओ । सो गइउवग्गहकरो लोगम्मि जमत्थि नालोए ॥१८५० ॥ यद्युक्तन्यायेन मुक्तस्य गतिक्रियया सक्रियत्वमिष्यते, तर्हि सिद्धालयात् सिद्धावस्थितिक्षेत्रात् परतोऽलोकेऽपि म तस्य गतिर्न प्रवर्तते । अत्रोच्यते - परतो धर्मास्तिकाय विरहात् । तद्विरहोऽपि कुतः ? इत्याह- यद् यस्मादसौ धर्मास्तिकायो लोक एव समस्ति, नालोके | मा भूदसावलोके, किं तेन प्रस्तुतानुपयोगिना कर्तव्यम्, तद्विरहेऽपि भवतु मुक्तस्य तत्र गतिः, नियमाभावात् ? । तदयुक्तम्, यतो जीवानां पुद्गलानां च गतेर्गमनस्योपग्रह उपष्टम्भस्तत्कारी स एव धर्मास्तिकायो नान्यः, ततस्तस्यालोकेऽभावात् कथं लोकात् परतोऽलोकेऽपि मुक्तात्मनां गतिः प्रवर्तते ? इति ।। १८५० ।। कथं पुनरेतदवसीयते यदुत - लोकादन्योऽप्यलोकपदार्थः कश्चिदस्ति ? इत्याशङ्क्याह लोगस्स त्थि विवक्खो सुद्धत्तणओ घडस्स अघडो व्व । स घडाइ च्चिय मई न निसेहाओ तदणुरुवो ॥ १८५१॥ अस्ति लोकस्य विपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् इह यद् व्युत्पत्तिमता शुद्धपदेनाभिधीयते तस्य विपक्षो दृष्टः, यथा घटाघटः, यश्च लोकस्य विपक्षः सोऽलोकः । अथ स्यान्मतिः - 'न लोकोऽलोकः' इति यो लोकस्य विपक्ष: स घटादिपदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तर परिकल्पनया ? । तदेतद् न, पर्युदासनत्रा निषेधाद् निषेध्यस्यैवानुरूपोऽत्र विपक्षोऽन्वेषणीयः, 'न लोकोऽलोकः' इत्यत्र च लोको निषेध्यः, स चाकाशविशेषः, अतोऽलोकेनापि तदनुरूपेण भवितव्यम्, यथा 'इहापण्डितः ' इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाचेतनो घटादिः, एवमिहापि लोकानुरूप एवालोको मन्तव्यः । उक्तं च“नञ्युक्तमिवयुक्तं वा यद्धि कार्य विधीयते । तुल्याधिकरणेऽन्यस्मिँल्लोकेऽप्यर्थगतिस्तथा ॥ १ ॥" “नञ्-इवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” । तस्माल्लोकविपक्षत्वादस्त्यलोक इति ।। १८५१ ।। अथालोकास्तित्वादेव धर्मा-धर्मास्तिकाय साधयन्नाह - म्हा धम्मा-धम्मा लोयपरिच्छेयकारिणो जुत्ता । इहरागासे तु लोगोऽलोगो त्ति को भेओ ? ॥ १८५२॥ १ किं सिद्धालयपरतो न गतिः, धर्मास्तिकायविरहात् । स गत्युपग्रहकरो लोके यदस्ति नालोके ॥ १८५० ॥ २ लोकस्यास्ति विपक्षः शुद्धत्यतो घटस्याघट इव । स घटादिरेव मतिर्न निषेधात् तदनुरूपः ॥ १८५१ ॥ ३ तस्मादु धर्मा-धर्मौ लोकपरिच्छेदकारिणौ युक्तौ । इतरथाकाशे तुल्ये लोकोऽलोक इति को भेदः १ ॥ १८५२ ॥ For Personal and Private Use Only बृहद्वत्तिः ॥७७४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202