Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥७७९ ।।
Jain Education Internationa
दरातिः किमु मूर्तिममृतमर्त्यस्य" इत्यादि ; तथा “को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण कुबेरादीन् " इत्यादि । एतेषां च वेदपदानामयमर्थस्तव बुद्धौ प्रतिभासते, यथा- स एष यज्ञ एव दुरितवारणक्षमत्वादायुधं प्रहरणं यस्यासौ यज्ञायुधी, यजमानोऽञ्जसाप्रगुणेन न्यायेन, स्वर्गलोकं गच्छति, इति देवसत्ताप्रतिपत्तिः । तथा, अपाम- पीतवन्तः, सोमं लतारसम्, अमृताः- अमरणधर्माण:, अभूम - भूताः स्मः, अगमन्- गताः, ज्योतिः - स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मादूर्ध्वं तृणवत् करिष्यति कोsit : इत्याह- अरातिः - व्याधिः, तथा, किमु प्रने, मूर्ति- जराम्, अमृतमर्त्यस्येति- अमृतत्वं प्राप्तस्य मर्त्यस्य पुरुषस्येत्यर्थः, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति जरा-व्याधयः ? इति भावः । अत्रापि देवसत्ताप्रतिपत्तिः । “को जानाति मायोपमान् " इत्यादीनि तु देवाभावप्रतिपादकानि । अतस्तव संशयः । अयुक्तश्चायम्, यतोऽमीषां वेदपदानामर्थं त्वं न जानासि चशब्दाद् युक्तिं च न वेत्सि । एतेषां हि वेदपदानां नायमर्थो यस्तवाभिप्रेतः किन्त्वयम् वक्ष्यमाणलक्षण इति ।। १८६६ ।
अत्र भाष्यम् -
तं मन्नसि नेरइया परतंता दुक्खसंपउत्ता य । न तरंतीहागंतुं सद्धेया सुव्वमाणा वि ॥ १८६७ ॥
सच्छंदयारिणो पुण देवा दिव्वप्पभावजुत्ता य । जं न कयाइ वि दरिसणमुर्वेति तो संसओ तेसु || १८६८ ॥ मौर्य ! त्वमेवं मन्यसे - नारकाः स्वकृतपापनरकपालादिपरतन्त्राः पराधीनवृत्तयोऽतीव दुःखसंघातविह्वलाश्च न शक्नुवन्त्यत्रागन्तुम्, अतः प्रत्यक्षीकरणोपायाभावात् श्रूयमाणा अपि श्रद्धेया भवन्तु । देवास्तु स्वच्छन्दचारिणो दिव्यप्रभावयुक्ताश्च तथापि यस्माद् न कदाचिद् दर्शनपथमवतरन्ति श्रूयन्ते च श्रुति स्मृत्यादिषु, अतस्तेषु शङ्केति ।। १८६७ ।। १८६८ ॥
अत्रोत्तरमाह
माकुरु संसयमे सुदूरमणुयाइ भिन्नजाईए । पेच्छसु पञ्चक्खं चिय चउव्विहे देवसंघाए ॥ १८६९ ॥ मौर्यपुत्र ! देवेषु मा संशयं कार्षीस्त्वम्, एतानेव हि सुदूरमत्यर्थ मनुजादिभ्यो भिन्नजातीयान् दिव्याभरण-विलेपन-वसन
१ त्वं मन्यसे नैरयिकाः परतन्त्रा दुःखसंप्रयुक्ताश्च । न शक्नुवन्तीहाऽसान्तुं श्रद्धेयाः श्रूयमाणा अपि ॥ १८६७ ॥ स्वच्छन्दचारिणः पुनर्देवा दिव्यप्रभावयुक्ताश्च यन्न कदाचिदपि दर्शनमुपयन्ति ततः संशयस्तेषु ॥ १८६८ ॥
२ मा कुरु संशयमेतान् सुदूरमनुजादिभिन्नजातीयान् । प्रेक्षस्त्र प्रत्यक्षमेव चतुर्विधातू देवसङ्घातान् ॥ १८६९ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
।।७७९ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202