Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद
विशेषा ॥७७१॥
देव्यामुत्तत्तणओ नहं व निच्चो मओ स दव्वतया । सव्वगयत्तावत्ती मइ त्ति तं नाणुमाणाओ ॥१८४२॥
स मुक्तात्मा नित्य इति प्रतिज्ञा । 'दब्वामुत्तत्तणउ त्ति' द्रव्यत्वे सत्यमूर्तत्वादिति हेतुः । 'दव्वतय त्ति' यथा द्रव्यत्वे सत्य- मूर्त नभ इति दृष्टान्तः । अथैवंभूता मतिः परस्य स्यात्- अनन हेतुना सर्वगतत्वापत्तिरप्यात्मनः सिध्यति; तथाहि- सर्वगत आत्मा, द्रव्यत्वे सत्यमूर्तत्वात् , नभोवत् । ततश्च धर्मविशेषविपरीतसाधनाद् विरुद्धोऽयम् । तदेतद् न । कुतः । अनुपानात्- अनुमानवाधितत्वात् सर्वगतत्वस्येत्यर्थः; तथाहि- असर्वगत आत्मा, कर्तृत्वात् , कुलालवत् । न च कर्तृत्वमसिद्धम् , भोक्तृत्व द्रष्टुत्वाद्यनुपप| तेरिति ।। १८४२ ॥
_ यदि वा, किमनेनैकान्तिकेन नित्यत्वग्रहेण ?, एकान्तानित्यत्ववादिनिराकरणार्थमेव ह्येवमभिहितम् , परमार्थतस्तु सर्वमेव | वस्तु जैनानां भवन-भङ्ग-स्थित्यात्मकमेवेति दर्शयन्नाह
कोवा निच्चग्गाहो सव्वं चिय वि भव-भंग-हिइमइयं । पज्जायंतरमेत्तप्पणादनिच्चाइववएसो ॥ १८४३ ॥
गतार्था, नवरं पर्यायान्तरमावस्यार्पणं प्रधानभावेन विवक्षणं तस्मादनित्यादिव्यपदेशः, तथाहि- घटः पूर्वेण मृत्पिण्डपर्यायेण विनश्यति, घटपर्यायतया पुनरुत्पद्यते, मृदूपतया त्ववतिष्ठते । ततश्च यो विनष्टरूपतादिपर्यायो यदार्पितः प्रधानभूतो विवक्ष्यते, तदा - तेनानित्यत्वादिव्यपदेशः। एवमसावपि मुक्तः संसारितया विनष्टः, सिद्धतयोत्पन्नः, जीवत्व-सोपयोगत्वादिभिस्त्ववतिष्ठते, तथा,
प्रथमसमयसिद्धतया विनश्यति, द्विसमयसिद्धतयोत्पद्यते, द्रव्यत्व-जीवत्वादिभिस्त्ववतिष्ठते । ततोऽर्पितपर्यायेणानित्यत्वादिव्यपदेश इति ।। १८४३॥
मुक्तस्यावस्थानक्षेत्रनिरूपणार्थमाह
मुत्तस्स कोऽवगासो सोम्म ! तिलोगसिहरं, गई किह से ?। कम्मलहुया तहागइपरिणामाईहिं भणियमिदं॥१८४४॥ 'मुक्तस्य क्षीणसमस्तकर्मणो जीवस्य कोऽवकाशः कावस्थानम्, इति पृष्टे सत्याह-सौम्य ! त्रिलोकशिखरं, लोकान्त इत्यर्थः।
१ च्यामूर्तत्वतो नभ इव नित्यो मतः स द्रव्यतया । सर्वगतत्वापत्तिमंतिरिति तद् नानुमानात् ॥१८५२॥ २ प. ज. धर्मिवि' । ३ को वा नित्यग्रहः सर्वमेवापि भव-भङ्ग-स्थितिमयम् । पर्यायान्तरमात्रार्पणादनित्यादिव्यपदेशः ॥ १८५३ ।। • मुक्तस्य कोऽवकाशः स त्रिलोकाश खरं, गतिः कथं तस्य ? । कमलघुता तथागतिपरिणामादिभिर्भणितमिदम् ।। १८४४ ॥
॥७७१२॥
JainEducational Internation
For Personal and Private Use Only
www.jaineltrary.org
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202