Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 163
________________ बृहद्वत्तिः । विशेषा ॥७६१॥ अथ चेत् कर्मणः पूर्वमात्माऽनादिकालसिद्ध एव, इति किं तस्य सहेतुक-निर्हेतुकचिन्तया ? इति । अत्रोच्यते- 'निकारणओ इत्यादि' यद्येवम् , ततः 'से' तस्य जीवस्य कर्मयोगः कर्मवन्धो न प्राप्नोति, अकारणत्वात् , नभस इव । अथ निष्कारणोऽप्यसौभवति, तर्हि मुक्तस्यापि भूयः स भविष्यति, निष्कारणत्वाविशेषात् , ततश्च मुक्तावप्यनाश्वास इति ॥ १८०७॥ यदिवा, होज स निच्चमुक्को बंधाभावम्मि को व से मोक्खो ?। न हि मुक्कव्ववएसो बंधाभावे मओ नभसो ॥१८०८॥ अथवा, कर्मयोगाभावाद् नित्यमुक्त एवासौ भवेत् । यदिवा, बन्धाभावे कः किल तस्य मोक्षव्यपदेशः? । न ह्यबद्धस्य नभसः कस्यापि मुक्तव्यपदेशो मतः, बन्धपूर्वकत्वाद् मोक्षस्य । तस्माद् न 'पूर्व जीवः पश्चात् कर्म' इति प्रथमविकल्प इति ॥ १८०८ ॥ अथ 'पूर्व कर्म पश्चाज्जीवः, युगपद् वा द्वावपि' इति पक्षद्वयस्य प्रतिविधानमाहने य कम्मस्स वि पुव्वं कत्तुरभावे समुब्भवो जुत्तो । निक्कारणओ सो वि य तह जुगवुप्पत्तिभावे य ॥१८०९॥ न हि कत्ता कजं ति य जुगवुप्पत्तीए जीव-कम्माणं । जुत्तो ववएसोऽयं जह लोए गोविसाणाणं ॥१८१०॥ न च जीवात् पाक् कर्मणोऽपि समुद्भवो युक्तः, कर्तुर्जीवस्य तदानीमभावात् , अक्रियमाणस्य च कर्मत्वायोगात् , निष्कारणश्वेत्थमसौ कर्मसमुद्भवः स्यात् , ततोऽकारणजातस्याकारणत एव विनाशोऽपि स्यादिति । तथा, युगपदुत्पत्तिभावे च 'प्रत्येकपक्षोक्ता दोषाः वाच्याः" इति शेषः-निर्हेतुकत्वात् प्रत्येकवदुभयस्यापि समुदितस्यानुत्पत्तिरित्यादि । न च युगपदुत्पन्नयोर्जीव-कर्मणोः कर्तृ-कर्मभावो युज्यत इत्येतदेवाह- 'न हीत्यादि' न हि युगपदुत्पन्नयोर्जीव-कर्मणोः 'अयं जीवः कर्ता' 'इदं वा ज्ञानावरणादिपुद्गलनिकुरम्बं कर्य' इति व्यपदेशो युज्यते, यथा लोके सव्ये-तरगोविषाणयोरिति ॥ १८०९ ॥ १८१० ।। द्वितीय मूलविकल्पमधिकृत्याह , भवेत् स नित्यमुक्तो बन्धाभावे को वा तस्य मोक्षः। न हि मुक्तव्यपदेशो बन्धाभावे मतो नभसः ॥ १८०८ ॥ २ न च कर्मणोऽपि पूर्व कर्तुरभावे समुद्भवो युक्तः । निष्कारणकः सोऽपि च तथा युगपदुत्पत्तिभावे च ॥ १८०९ ॥ नहि कर्ता कार्यमिति च युगपदुत्पची जीव-कर्मणोः । युक्तो व्यपदेशोऽयं यथा लोके गोविषाणयोः ॥ 161.॥ 21 I७३ ASTRA Jan Education Internation Foron and Private Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202