Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 162
________________ विशेषा० ॥७६०॥ Jain Education International बन्धस्यैवाभावात्; मोचयति वा नान्यम्, इत्यनेनाकर्तृकत्वमाह; नवा एष बाह्यम्- आत्मभिन्नं महदहङ्कारादि, अभ्यन्तरं - निजस्वरूपमेव, वेद - विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्वा चेतनत्वात् । ततश्चामूनि किल बन्ध-मोक्षाभावप्रतिपादकानि । तथा, न ह वै नैवेत्यर्थः सशरीरस्य प्रिया-प्रिययोर पहतिरस्तीति- बाह्या-ऽऽध्यात्मिकानादिशरीरसंतानयुक्तत्वात् सुख-दुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तं- अमूर्तमित्यर्थः, प्रिया-प्रिये न स्पृशतः, तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षाभिधायकानीति । अतः संशयः । तत्र “ स एष विगुणो विभुः" इत्यादीनां नायमर्थः किन्त्वयं वक्ष्यमाणलक्षण इति ॥ १८०४ || अत्र भाष्यम् – 'तं मन्नसि जइ बंधो जोगो जीवस्स कम्मुणा समयं । पुव्वं पच्छा जीवो कम्मं व समं व ते होज्जा १ ॥ १८०५ ॥ 'वेयपयाण य' इत्यत्र चशब्दाद् युक्तिं च त्वं न जानाति । कुतः ? यस्मादायुष्मन् मण्डिक! त्वमेवं मन्यसे- जीवस्य बन्धो यदि कर्मणा समकं सार्धं योगः संयोगोऽभिप्रेतः स खल्वादिमान्, आदिरहितो षा ? । यद्यादिमान् ततः किं पूर्व जीवः प्रसूयेत पश्चात् कर्म, पूर्व वा कर्म पश्चाज्जीवः प्रसूयेत, समं वा युगपद् वा तौ द्वावपि प्रसूयेयाताम् ? इति पक्षत्रयमिति ।। १८०५ ॥ अत्राद्यपक्षस्य दूषणमाह - fe youtऊओ खरसंगं वायसंभवो जुत्तो । निक्कारणजायरस य निक्कारणउ च्चिय विणासो ॥ १८०६ ॥ 'पूर्व जीवः पश्चात्कर्म' इत्येतदयुक्तम्, यतो न कर्मणः पूर्व 'खरसंगं वायसंभवो जुत्तो' खरशृङ्गस्येवात्मनः संभवो युक्तः, अहेतुकत्वात् इह यदहेतुकं तद् न जायते, यथा खरशृङ्गम् यश्च जायते तद् निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति ।। १८०६ ।। अमेव विकल्पं दूषयितुमाह - अहवाऽणाइ च्चिय सो निक्कारणओ न कम्मजोगो से । अह निक्कारणओ सो, मुक्कस्स वि होहिइ स भुज्जो ॥ १८०७ ॥ १ त्वं मन्यसे यदि बन्धो योगो जीवस्य कर्मणा समकम् । पूर्व पश्चाज्जीवः कर्म वा समं वा ते भवेताम् ? ॥ १८०५ ॥ २ न हि पूर्वमहेतोः खरशृङ्गमिवात्मसंभवो युक्तः । निष्कारणजातस्य च निष्कारणक एव विनाशः ॥ १८०६ ॥ ३ अथवाऽनादिरेव स निष्कारणको न कर्मयोगस्तस्य । अथ निष्कारणः सः, मुक्तस्यापि भविष्यति स भूयः ॥ १८०७ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥७६०/ www.jainelibrary.ing

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202