Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥७६४॥
Jain Education Internation
'यद् यस्माज्जीव- कर्मसंयोगसंतानोऽनादिस्तेन तस्मादनन्तोऽपि' इति नायमेकान्तः, यतोऽनादिरपि संयुक्तयोर्वस्तुनोः संतानः सान्तोऽपि कचिद् दृश्यते, यथा बीजाङ्कुरादीनां संतान इति ।। १८१७ ।।
तथाहि-
अण्णयरमणिव्वत्तियकज्जं बीयं- कुराण जं विहयं । तत्थ हओ संताणो कुक्कुडि-अंडाइयाणं च ॥ १८१८ ॥ जह वह कंचणो-वलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीव-कम्माणं ॥ १८१९ ॥ बीजा-रयोर्मध्येऽन्यतरदनिर्वर्तितकार्यमेव यद् विहतं व्यवच्छिन्नं तत्रानयोर्हतो व्यवच्छिन्नः संतानः । एवं कुक्कुट्यऽण्डयोः, पिता-पुत्रयोरपि च वक्तव्यम् । यथा वा काश्चनो- पलयोरनादिकालमवृत्तसंतानभावगतोऽपि संयोगः सोपायमनितापाद्युपायाद् व्यवच्छियते, तथा जीव- कर्मणोरपि संयोगोऽनादिसंतानगतोऽपि तपः- संयमाद्युपायाद् व्यवच्छिद्यते इति न मोक्षाभाव इति ।। १८१८ ।। १८१९ ॥
अत्र परस्य प्रश्नमुपन्यस्योत्तरमाह -
तौ किं जीव-नहाण व अह जोगो कंचणो-वलाणं व १ । जीवरस य कम्मरस य भण्णइ दुविहो वि न विरुद्धो ॥ १८२०॥ पढमोऽभव्वाणं चिय भव्वाणं कंचणो वलाणं व । जीवत्ते सामण्णे भव्वोऽभव्यो त्ति को भेओ १ ॥ १८२१ ॥
आह- जीवस्य कर्मणश्च योऽयं परस्परं योगः सोऽनादिः सन् किं जीव-नभसोरिवानन्तः, अथ काञ्चनो- पलयोरिव सान्तोऽपि स्यात् १, उभयथापि दर्शनात् किमत्र प्रतिपद्यामहे । भण्यतेऽत्रोत्तरम् - द्विधाऽप्ययमविरुद्धः, तत्र प्रथमोऽनाद्यनन्तरूपोऽभव्यानां द्रष्टव्यः । यस्तु काञ्चनो-पलयोरिवानादिः सान्तोऽसौ भव्यानां विज्ञेयः । आह- ननु जीवत्वसाम्येऽपि 'अयं भव्यः' 'अयं चाभव्यः' इति किंकृतोऽयं विशेष: ? । न च वक्तव्यम् - यथा जीवस्वे समानेऽपि नारक तिर्यगादयो विशेषास्तथा भव्या-भव्यत्वविशेषोऽपि
१ अन्यतरदनिर्वर्तितकार्य बीजा-रयोर्यद् विहतम् । तत्र हतः संतानः कुक्कुट्यः ऽण्डादिकानां च ॥ १८१८ ॥ २ घ. ज. 'योरन्य' । यथा वह काञ्चनो-पलसंयोगोऽनादिसंततिगतोऽपि व्यवच्छिद्यते सोपायं तथा योगो जीव-कर्मणोः ॥ १८१९ ॥
३ ततः किं जीव-नभसोरिवाथ योगः काञ्चनो-पलयोरिव ? जीवस्य च कर्मणश्च भण्यते द्विविधोऽपि न विरुद्धः ॥ १८२० ॥ प्रथमोऽभव्यानामेव भव्यानां काञ्चनो- पलयोरिव। जीवत्वे सामान्ये भव्योऽभव्य इति को भेदः ? ॥ १८२१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७६४॥
www.jaincibrary.org.
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202