Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 169
________________ विशेषा० ॥७६७॥ Jain Education Internati ऐस्सेण तत्तिउच्चिय जुत्तो जं तो वि सव्वभव्वाणं । जुत्तो न समुच्छेओ होज्ज मई कहमिणं सिद्धं ? || १८२९ ॥ भव्वाणमणत चणमणंतभागो व किह व मुक्को सिं । कालादओ व मंडिय ! मह वयणाओ व पडिवज्ज ॥ १८३०॥ व्याख्या - यस्माच्चातीता ऽनागतकालौ तुल्यावेव, यतश्वातीतनापि कालेनैक एव निगोदानन्ततमो भागोऽयापि भव्यानां सिद्धः, एष्यतापि भविष्यत्कालेन तावन्मात्र एव भव्यानन्तभागः सिद्धिं गच्छन् युक्तो घटमानकः, न हीनाधिकः, भविष्यतोऽपि कालस्यातीततुल्यत्वात् । तत एवमपि सति न सर्वभव्यानामुच्छेदो युक्तः, सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमन संभवोपदर्शनात् । अथ परस्य मतिर्भवेत् तत् कथमिदं सिद्धं यदुत - अनन्ता भव्याः, तदनन्तभागथ सर्वेणैव कालेन सेत्स्यतीति ? | अत्रोच्यते - काला-ssकाशादय इवानन्तास्तावद् भव्याः, तदनन्तभागस्य च मुक्तिगमनात्, काला-ssकाशयोरिव न सर्वेषामुच्छेद इति प्रतिपद्यस्व मद्वचनाद् वा मण्डिक ! सर्वमेतत् श्रद्धेहीति ।। १८२८ ।। १८२९ ।। १८३० ।। कथं पुनस्त्वद्वचनात् सर्वमेतत् सत्यतया प्रतिपद्यामहे ? इत्याशङ्कयाह- संभूयमिणं गिहसु मह वयणाओऽवसेसवयणं व । सव्वण्णुताइओ वा जाणयमज्झत्थवयणं व ॥ १८३१ ॥ मसि हि सव्वष्णू सव्वेसिं सव्वसंसयच्छेया । दिहंताभावम्मि विपुच्छउ जो संसओ जस्स ॥ १८३२ ॥ व्याख्या - सद्भूतमिदमनन्तरोक्तं सर्वमपीति गृहाण त्वम् मद्वचनत्वात् यथा त्वत्संशयादिविषयमवशेषं मद्वचनम्, सर्वज्ञत्वादित्यादिभ्यो वा हेतुभ्यः, आदिशब्दाद् वीतरागत्वादिपरिग्रहः, ज्ञायकमध्यस्थवचनवदित्ययमत्र दृष्टान्त इति । अथैवं मन्यसे -- कथमिव सर्वज्ञस्त्वम् ? । अत्रोच्यते - सर्वेषां सर्वसंशयच्छेदात् । अन्यस्य सर्वसंशयच्छेत्तुः कस्याप्यदर्शनात् कोऽत्र दृष्टान्तः ? - न कश्चिदिति । अत्रोच्यते किमत्र दृष्टान्तान्वेषणेन १ । तदभावेऽपि हि यो यस्य संशयः स तं सर्वमपि पृच्छतु, येन स्वप्रत्ययसिद्ध एव मयि सर्वज्ञत्वनिश्चयो भवतीति ।। १८३१ ।। १८३२ ।। १ एष्यता तावानेव युक्तो यत् ततोऽपि सर्वभव्यानाम्। युक्तो न समुच्छेदो भवेद् मतिः कथमिदं सिद्धम् ? ॥ १८२९ ॥ भव्यानामनन्तत्वमनन्तभागो वा कथं वा मुक्त एषाम् ? कालादय इव मण्डिक ! मम वचनाद् वा प्रतिपचस्व ॥ १८३० ॥ २ सद्भूतमिदं गृहाण मद्वचनादवशेषवचनमिव । सर्वज्ञतादितो वा ज्ञायकमध्यस्थवचनमिव ॥ १८३१ ॥ मन्यसे कथं सर्वज्ञः सर्वेषां सर्वसंशयच्छेदात् । दृष्टान्ताभावेऽपि पृच्छतु यः संशयो यस्य ॥ १८३२ ॥ For Personal and Private Use Only बृहद्वतिः । ॥७६७॥ www.janetary.ing

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202