Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥७६८॥
अत्र प्रेरकः प्राहभव्वा वि न सिज्झिस्संति केइ कालेण जइ वि सव्वेण । नणु ते वि अभव्व च्चिय किंवा भव्बत्तणं तेसिं ?॥१८३३॥
ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेऽपि न सेत्स्यन्ति, तर्हि येषां सिद्धिर्न भविष्यति, अभव्या एव ते किं न व्यपदिश्यन्ते ? केन वा विशेषेण तेषां भव्यत्वम् ? इति निवेद्यतामिति ॥ १८३३ ।।
अत्रोत्तरमाहभैण्णइ भव्वोजाग्गोन य जोग्गत्तेण सिज्झए सव्वो। जह जोग्गम्मि विदलिए सव्वम्मिन कीरए पडिमा ॥१८३४॥
भण्यतेऽत्रोत्तरम् । किम् ? इत्याह- भव्योऽत्र सिद्धिगमनयोग्योऽभिप्रेतः, न तु यः सिद्धिगतिं यास्यत्येव, न च योग्यतमस्तीत्येतावतैव सर्वः सिध्यति, किन्तु सिद्धिगमनसामग्रीसंभवे सति । दृष्टान्तमाह- यथा हेम मणि-पाषाण-चन्दन-काष्ठादिके योग्येऽपि प्रतिमाहेऽपि दलिके न सर्वस्मिन् प्रतिमा विधीयते, किन्तु यत्रैव तनिष्पत्तियोग्या सामग्री संभवति तत्रैवासौ क्रियते । न च तदसंभवमात्रेण प्रतिमाविषयेऽयोग्यता भवति । नियमश्वेह नैवं विधीयते यदुत-प्रतिमायोग्य वस्तुनि प्रतिमा भवत्येवेति, किन्तु यदा तदा वा तद्योग्य एव सा भवति, नान्यत्रेतिएवमिहापि न 'भव्यः' इत्येतावन्मात्रेणैव सर्वः सिध्यति, किन्तु सामग्रीसंपत्ती, न च तदसंपत्तावपि तस्याभव्यता भवति, किन्तु यदा तदा वा भव्यस्यैव मुक्ति भव्यस्येति ॥ १८३४ ॥
दृष्टान्तान्तरमाहजह वा स एव पासाण-कणगजोगो विओगजोग्गो वि।न विजुज्जइ सव्वो च्चिय स विजुज्जइ जस्स संपत्ती ॥१८३५॥ किं पुण जा संपत्ती सा जोग्गरसेव न उ अजोग्गस्स। तह जो मोक्खो नियमा सो भव्याणं न इयरेसिं ॥ १८३६ ॥ व्याख्या- यथा वा स एव पूर्वोक्तः सुवर्णपाषाण-कनकयोर्योगो वियोगयोग्यतान्वितोऽपि सर्वो न वियुज्यते, किन्तु स एव
SION
. भव्या अपि न सेत्स्यन्ति केऽपि कालेन यद्यपि सर्वेण । ननु तेऽप्यभव्या एवं किंवा मध्यावं तेषाम् ॥ १८३३ ॥ २ भण्यते भन्यो योग्यो न च योग्यत्वेन सिध्यति सर्वः । यथा योग्येऽपि दलिक सर्वस्मिन् न क्रियते प्रतिमा ॥ १८३४ । ३ यथा वा स एव पाषाण-कनकयोगो वियोगयोग्योऽपि । न वियुज्यते सर्व एव स वियुज्यते यस्य संप्राप्तिः ॥ १८३५॥
किं पुन्या संप्राप्तिः पा योग्यस्यैव न त्वयोग्यस्य । तथा यो मोक्षो नियमात् स भव्यानां नेतरेषाम् ॥ १८३६ ॥
||७६८॥
Jan Education Internatio
FOR P
and Private Use Only
www.jaineibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202