Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 167
________________ विशेषा० बृहद्वतिः । PHOTOHAGRA ॥७६५॥ भविष्यतीति, यतः कर्मजनिता एव नारकादिविशेषाः, न तु स्वाभाविकाः। भव्या भव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता, न चैवमिति ॥ १८२० ॥ १८२१ ।। एतदेवाह होउ जइ कम्मकओ न विरोहो नारगाइभेउ ब्व। भणह य भवा-ऽभब्वा सभावओ तेण संदेहो ॥१८२२॥ भवतु वा यदि कर्मकृतोऽयं भन्या-ऽभव्यत्वविशेषो जीवानामिष्यते, नात्र कश्चिद् विरोधः, नारकादिभेदवत् , न चैतदस्ति, यतो 'भव्या ऽभव्याः स्वभावत एव जीवा न तु कर्मतः' इति यूयं भणथ, तेनास्माकं संदेह इति ।। १८२२ ॥ परेणैवमुक्ते सत्याह देव्वाइत्ते तुल्ले जीव-नहाणं सभावओ भेओ । जीवा-ऽजीवाइगओ जह, तह भब्वे-यरविसेसो ॥ १८२३ ॥ यथा जीव-नभसोर्द्रव्यत्व-सत्त्व-प्रमेयत्व-ज्ञयत्वादौ तुल्येऽपि जीवा-जीवत्व-चेतना-चेतनत्वादिस्वभावतो भेदः, तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्या-ऽभव्यकृतो विशेषः स्यात् , तर्हि को दोषः ? इति ।। १८२३ ॥ इत्थं संबोधितो भव्यत्वादिविशेषमभ्युपगम्य दूषणान्तरमाह एवं पि भव्वभावो जीवत्तं पिव सभावजाईओ। पावइ निच्चो तम्मि य तदवत्थे नत्थि निव्वाणं ॥ १८२४ ॥ नन्वेवमपि भव्यभावो नित्योऽविनाशी प्रामोति, स्वभावजातीयत्वात्- स्वाभाविकत्वात् , जीवत्ववत् । भवत्वेवमिति चेत् । तदयुक्तम् , यतस्तस्मिन् भव्यभावे तदवस्थे नित्यावस्थायिनि नास्ति निर्वाणम् , "सिद्धो न भन्यो नाप्यभव्यः" इति वचनादिति ॥१८२४॥ नैवम् , कुतः ? इत्याहजह घडपुव्वाभावोऽणाइसहावो वि सनिहणो एवं । जइ भव्वत्ताभावो भवेज्ज किरियाए को दोसो ? ॥१८२५॥ T १ भवतु यदि कर्मकृतो न विरोधी नारकादिभेद इव । भणय च भव्या-ऽभव्यान् स्वभावतस्तेन संदेहः ॥ १८२२ ॥ २ व्यादित्वे तुल्ये जीव-नभसोः स्वभावतो भेदः । जीवा-उजीवादिगतो यथा, तथा भव्ये-तरविशेषः ॥ १८२३ ॥ ३ एवमपि भव्यभावो जीवत्वमिव स्वभावजातीयः । प्राप्नोति नित्यस्तस्मिंश्च तदवस्थे नास्ति निर्वाणम् ॥ १८२४ ॥ • यथा घटपूर्वाभावोऽनादिस्वभावोऽपि सनिधन एवम् । यदि भव्यत्वाभावो भवेत् क्रियया को दोषः ॥ १८२५ ॥ For Peso Use

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202