Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 165
________________ विशेषा० ॥७६३॥ Jain Educationa Internationa शिष्टम् १ इत्याह- यदग्रेतनस्य देहस्य कारणम्, यच्चान्यस्यातीतस्य देहस्य कार्यमिति । एवमनादौ संसारे न कचिद् विश्राम्यति, अतोऽनादिर्देह-कर्मसंतान इति । आह-- ननु बन्ध-मोक्षाविह साधयितुं प्रस्तुतौ ततः कर्मसंतानस्यानादित्वसाधनमसंबद्धमिव लक्ष्यते । तदयुक्तम्, अभिप्रायापरिज्ञानात्, न कृतं कर्म संभवति 'क्रियत इति कर्म' इति व्युत्पत्तेः यच्च तस्य करणमसावेव बन्ध इति कथं न तत्सिद्धिः १ ॥ १८१४ ।। ननु यदि क्रियत इति कर्मोच्यते, तर्हि कोऽस्य देहस्य च कर्ता १, इत्याह कत्ता जीवो कम्मरस करणओ जह घडस्स घडकारो । एवं चिय देहस्स वि कम्मकरणसंभवाउ ति ॥ १८१५ ।। कर्ता चात्र कर्मणो जीवः, करणसमेतत्वात् दण्डादिकरणयुक्तकुलालवद् घटस्य करणं चेह जीवस्य कर्म निर्वर्तयतः शरीरमवगन्तव्यम् | एवं देहस्याप्यात्मैव कर्ता, कर्मरूपं करणं कर्मकरणं तत्संभवात् तद्युक्तत्वात्, दण्डादिकरणसमेत कुलालवदिति॥१८१५।। अथात्र मे परिहारं चाह मं करणमसिद्धं व ते मई कज्जओ तयं सिद्धं । किरियाफलओ य पुणो पडिवज्ज तमग्गिभूइ व्व ॥ १८१६ ॥ स्यादेतत्, अतीन्द्रियत्वेनासिद्धत्वात् कर्मणः करणत्वमसिद्धम् । तदयुक्तम्, यतः कार्यतः कार्यद्वारेण तत् सिद्धमेव, तथाहिविद्यमान करणं शरीरादि, कृतकत्वात्, घटादिवत् यच्चास्य करणं तत् कर्मैव तस्मादस्त्येव तत् । अथवा, विद्यमानकरणमेवात्मशरीरलक्षणं द्वयम्, कर्तृ-कार्यरूपत्वात्, कुलाल-घटादिवत् । यच्च कर्तुरात्मनः शरीरमुत्पादयतः करणं तत् कर्मेति कथं न तत्सिद्धिः । तथा, फलवत्यो दानादिक्रियाः, चेतनारब्धक्रियारूपत्वात्, कृष्यादिक्रियावत् यच्च तासां फलं तत् कर्म । इत्यग्निभूतिरिव त्वमपि प्रतिपद्यवेति ।। १८१६ ॥ चोक्तम्- 'योऽनादिः संयोगः सोऽनन्तो दृष्टः' इत्यादि । तत्राह - जैं संताणोऽणाई तेणाणतोऽवि णायमेगंतो । दीसइ संतो वि जओ कत्थइ बीर्य-कुराईणं ॥ १८१७ ॥ १ कर्ता जीवः कर्मणः करणतो यथा घटस्य घटकारः । एवमेव देहस्यापि कर्मकरणसंभवादिति ॥ १८१५ ॥ २ कर्म करणमसिद्धं वा तव मतिः कार्यंतस्तत् सिद्धम् । क्रियाफलतश्च पुनः प्रतिपद्यस्व तदग्निभूतिरिव ॥ १८१६ ॥ ३ यत् संतानोऽनादिस्तेनानन्तोऽपि नायमेकान्तः । दृश्यते सन्नपि यतः कुत्रापि बीजा ऽङ्कुरादीनाम् ॥ १८१७ ॥ For Personal and Private Use Only बृहद्वतिः । ॥७६३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202