Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 160
________________ विशेषा० ॥७५८ ।। Jain Educationa Internation किञ्च, उक्करिसा ऽवक्करिसा न समाणाए वि जेण जाईए । सरिसग्गाहे जम्हा दाणाइफलं विहा तम्हा ॥ १७९९ ॥ सदृशग्रहे समानजातीयताग्रहे सति समानायामपि जातौ येन यस्मादीश्वर-दरिद्र कुलीना-कुलीनादिरूपेणोत्कर्षा ऽपकर्षो न घटां प्राञ्चतः। यो हि यादृश इहभवे, स यदि परभवेऽपि तादृश एव, तर्हि य इह भवे ईश्वरः स परभवेऽपि तादृश एव, एवं दरिद्रादिष्वपि वाच्यम् । तत भवात् परभवे सर्वप्रकारैरप्युत्कर्षापकर्षो न स्याताम्, किन्त्वेकान्तसदृशत्वे भवेत् । 'तम्ह त्ति' तस्माद् मोक्तव्योऽयं सादृश्यग्रह इति मक्रमाद् द्रष्टव्यम् । अथेत्थमाचक्षीथाः- मा भूतामुत्कर्षापकर्षो का नो हानिः ? इत्याह- 'जम्हा दाणाइफलं विह त्ति' चकारस्य गम्यमानत्वाद् यस्माच्चेत्थं परत्रोत्कर्षा ऽपकर्षयोरभावे दानादिफलं वृथा संपद्यते । लोको हि परत्र देवादिसमृद्धिमाप्त्याऽऽत्मन उत्कर्षार्थ दानादिप्रवृत्तिं विदधाति । यदि चोक्तयुक्त्योत्कर्षायभावाद् दरिद्रो दान- तपस्-तीर्थावगाहनाद्यपि कृत्वाऽमुत्र दरिद्र एव स्यात्, तहिं क तद्दानादिफलम् ? इत्यपार्थिका दानादौ प्रवृत्तिः, तस्माद् न विधेयः सादृश्यग्रह इति ।। १७९९ । अपिच, एतस्मिन् सादृश्यग्रहे वेदपदानामप्यप्रामाण्यमापद्यत इति दर्शयन्नाह - जं च सिगालो वइ एस जायए वेयविहियमिच्चाइं । सग्गीयं जं च फलं तमसंबद्ध सरिसयाए । १८०० ॥ यच्च "शृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि वेदविहितं तदपि परभवसदृशताग्रहेऽसंबद्धमेव स्यात्, पुरुषादेरमुत्र शृगालतयानुपपत्तेः, तथा, यदपि " अग्निहोत्रं जुहुयात् स्वर्गकामः" तथा " अग्निष्टोमेन यमराज्यमभिजयति" इत्यादिकं स्वर्गीयफलसूचकत्वात् स्वर्गीयं फलं तदप्यसंबद्धं भवेत्, मनुष्यस्य त्वदभिप्रायेण देवत्वानुपपत्तेरिति । "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादीनां च वेदपदानामयमर्थ:- कोऽपि पुरुषः खल्विह जन्मनि प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्यनाम-गोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्नुते, न तु नियमेन सर्व एव अन्यस्यान्यकर्मवशगस्यान्यथाप्युत्पत्तेः । एवं पशवोऽपि केचिद् मायादिदोषवशात् पशुनाम गोत्रे कर्मणी बद्ध्वा परभवे पशवो जायन्ते, न तु सर्वेऽपि, नियमेन कर्मापेक्षित्वाज्जीवगतेरिति । तदेवं तस्यापि च्छिन्नः संशयः ॥ १८०० ॥ १ उत्कर्षापकर्षो न समानायामपि येन जातौ । सदृशग्रहे यस्माद् दानादिफलं वृथा तस्मात् ॥ १७९९ ॥ १ यच शृगालो वै एष जायते वेदविहितमित्यादि । स्वर्गीयं यच फलं तदसंबद्धं सदृशतायाम् ॥ १८५० For Personal and Private Use Only बृहद्वृत्तिः । ।।७५८ ।। www.jainellbrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202