Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥७३५॥
Jain Educationa Internati
मेन घटे सद्भावात् । अत्र यथासंख्यमुदाहरणद्वयम् । यथा 'द्रुमः' इत्युक्ते चूतः, अचूतो वा निम्बादिर्गम्यते, द्रुमत्वस्य सर्वत्र भावात् । 'चूत:' इति तु निगदिते द्रुम एव गम्यते, अद्रुपस्य चूतत्वायोगादिति ।। १७२४ ॥
यदुक्तम् - यदेतज्जातं न जायते, नाप्यजातम्, न च जाताजातम्, नापि जायमानम्' इत्यादि, तत्रोत्तरमाह-'किं तं जायं ति मई जाया जाओ भयं पि जदजायं । अह जायं पि न जायं किं न खपुष्फे वियारोऽयं ॥ १७२५॥
प्रष्टव्योऽत्र देवानांप्रियः, कथय- किं तद् वस्तु जातमिति प्रतिपद्यते तव मतिः, यज्जाता जातो भयादिप्रकारैरजातं साध्यतेयस्य जाताजातादिप्रकारैर्जन्म त्वया निषिध्यत इत्यर्थः । यदि हि जातं किमपि वस्तु तव सिद्धं तर्हि तत्सच्खेनैव प्रतिहता शून्यता, अतः 'किं तज्जातं जायते ? किं तदजातं जायते ? किं तज्जाताजातं जायते ?' इत्यादयः शून्यतासिद्ध्यर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इति प्रच्छकाभिप्रायः । अथ तदपि जातं जाताजातादिविकल्पाश्रयभूतं जातत्वेन भवतो न सिद्धम्, किन्त्वजातमेव तत्, ननु स्ववचनविरुद्धमिदं जातमप्यजातमिति । किञ्च, जातस्यासच्चे निराश्रयत्वाज्जाताजातादिविकल्पा निरर्थका एव । अथैतदाश्रयभूते जाताख्ये वस्तुन्यसिद्धेऽपि 'न जातं जायते' इत्यादिविकल्पविचारः प्रवर्तते तर्हि खपुष्पेऽप्यसौ किं न विधीयते, असत्त्वाविशेषेण 'समया विवज्जओ वा' इत्यादिव्यक्तदोषप्रसङ्गात् ? । न च वक्तव्यं परेषां सिद्धं जातमुररीकृत्य विकल्पा विधीयन्ते, स्व-परभावाभ्युपगमे शून्यताहानिरिति ॥ १७२५ ।।
अपि च,
जैइ सव्वहा न जायं किं जम्माणंतरं तदुवलम्भो । पुव्वं वाऽणुवलंभो पुणो वि कालंतरहयस्स ? ॥१७२६ ॥
यदि सर्वैरपि प्रकारैर्घटादि कार्य न जातमिति शून्यवादिना प्रतिपाद्यते, तर्हि मृत्पिण्डाद्यवस्थायामनुपलब्धं कुलालादिसामग्रीनिर्वर्तितजन्मानन्तरं किमिति तस्मात् तदुपलभ्यते ? । पूर्व वा जन्मतः किमिति तस्यानुपलम्भः १ । पुनरपि च कालान्तरे लगुडादिना हतस्य किमिति तस्यानुपलम्भ: ? । अजातस्य गगननलिनस्येव सर्वदैव घटादेरनुपलम्भ एव स्यात्, यस्तु कदाचिदुपलम्भः, कदाचित्तु नोपलम्भः, असौ जातस्यैवोपपद्यत इति भावः ।। १७२६ ।।
१ किं तज्जातमिति मतिर्जाता ऽजातो भयमपि यद्यजातम् । अथ जातमपि न जातं किं न खपुष्पे विचारोऽयम् ॥ १७२५ ॥ २ गाथा १७०८ ॥ ३ यदि सर्वथा न जातं किं जन्मानन्तरं तदुपलम्भः । पूर्व वाऽनुपलम्भः पुनरपि कालान्तरहतस्य ? ॥ १७३६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।।७३५ ।।
www.janelibrary.org
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202