Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥७४५॥
Jain Educationa Internationa
'छिक्कपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥१७५४॥
सम्मादओ य साव-प्पबोह-संकोयणाइओऽभिमया । बउलादओ य सद्दाइविसयकालोवलंभाओ ॥ १७५५ ॥ सचेतनाः स्पृष्टप्ररीदिकादयो वनस्पतयः स्पृष्टमात्रसंकोचात् कुलिङ्गः कीटादिस्तद्वत् । तथा, सचेतना वल्ल्यादयः, स्वरक्षार्थ वृत्ति-वृक्ष-वरण्डकाद्याश्रयं प्रति संचरणात् । तथा, शम्यादयश्चेतनत्वेनाभिमताः, स्वाप-प्रबोध- संकोचादिमत्त्वात्, देवदत्तवत् । तथा, सचेतना बकुला शोक- कुरुवक-विरहक-चम्पक-तिलकादयः शब्दादिविषयकालोपलम्भात् - शब्द-रूप-गन्ध-रस-स्पर्शविषयाणां काले प्रस्ताव उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः, यज्ञदत्तवदिति । एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्माण्डी- बीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ।। १७५४ ।। १७५५ ।।
अथ सामान्येन तरूणां, पृथ्वीविशेषाणां च विद्रुमादीनां सचेतनत्वसाधनायाह-
* मंसंकुरो व्व सामाणजाइरूवंकुरोवलंभाओ । तरुगण-विद्दुम लवणो वलादओ सासयावत्था || १७५६ ॥ तरुगणः, तथा विद्रुम-लवणो- पलादयश्च स्वाश्रयावस्था स्वजन्मस्थानगताः सन्तश्चेतनाः, छिन्नानामप्यमीषां पुनस्तत्स्थान एव समानजातीयाङ्करोत्थानात्, अशमांसाङ्कुरवत् । आह- ननु पृथिव्यादिभूतानामिह सचेतनत्वं साधयितुमारब्धम्, ततः पृथिव्या एवादौ तत् साधयितुं युक्तम्, तस्या एवादावुपन्यासात्, तत्किमिति 'जम्म-जरा- जीवण-' इत्यादिना तरूणामेवादौ तत् साधितम् पश्चात् विद्रुम- लवणोपलादीनामिति । सत्यम्, किन्तु पृथ्वीविकारतया पृथ्वीभूत एव तरूणामन्तर्भावो लोकप्रसिद्धः, सुव्यक्तचैतन्यलिङ्गाश्व यथा तरवो न तथा लवणो-पल-जलादय इति तेषामेवादौ चैतन्यं साधितमिति ।। १७५६ ।।
अधोदकस्य सचेतनत्वं साधयितुमाह-
भूमिक्खयसाभावियसंभवओ ददुरो व्व जलमुत्तं । अहवा मच्छो व सभाववोमसंभूयपायाओ ॥ १७५७ ॥
९४
१ स्पृष्टप्ररोदिकाः स्पृष्टमात्र संकोचतः कुलिङ्ग इव । आश्रयसंचाराद् व्यक्त ! वल्लवितानानि ।। १७५४ ॥
शम्यादयश्च स्वाप-प्रबोध-संकोचनादितोऽभिमताः । बकुलादयश्च शब्दादिविषयकालोपलम्भात् ॥ १७५५ ।। २ ज. 'रोहिका' ।
४ गाथा १७५३ ।
३ मांसाकर इव समानजातिरूपाङ्कुरोपलम्भात् । तरुगण-विद्रुम-लवणो-पलादयः स्वाश्रयावस्थाः ॥ १७५६ ॥
५ भूमिक्षतस्वाभाविकसंभवतो दर्दुर इव जलमुक्तम् । अथवा मत्स्य इव स्वभावव्योमसंभूतपातात् ।। १७५७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
1108411
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202