Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 154
________________ विशेषा. बृहवात्तिः। ॥७५२॥ इह विचित्रा कर्मपरिणतिः, पुद्गलपरिणामात्मकत्वात् , इह यत्पुद्गलपरिणामात्मकं तद् विचित्रपरिणतिरूपं दृश्यते, यथा बाह्योऽभ्रादिविकारः, पृथिव्यादिविकारो वा, यत्तु विचित्रपरिणतिरूपं न भवति तत् पुद्गलपरिणामात्मकमपि न भवति, यथाऽऽकाशम् , या पुनः पुद्गलपरिणामसाम्येऽपि कर्मणामावरणादिभेदेन विशेषतो विचित्रता सा तद्धतुवैचित्र्यादवगन्तव्या, विचित्राश्च मिथ्यात्वादयः प्रदेष-निववादयश्च कर्महेतव इति ।। १७८० ।। अथ पराभ्युपगमेनैव परभवे जीवानां वैसदृश्यं साधयन्नाह-- अहवा इहभवसरिसो परलोगो वि जइ सम्मओ तेणं । कम्मफलं पि इहभवसरिसं पडिवज्ज परलोए॥१७८१॥ किं भणियमिह मणुया नाणागइकम्मकारिणो संति । जइ ते तप्फलभाजो परे वि तो सरिसया जुत्ता॥१७८२॥ व्याख्या- अथवा, यदीहभवसदृशः परलोकोऽपि संमतो भवतः, 'तेणं ति' ततः कर्मफलमपि परलोक इहभवसदृशमिहत्यविचित्रशुभा-ऽशुभक्रियानुरूपं विचित्रं प्रतिपद्यस्खेति । एवं मुकुलितं प्रतिपाद्यैतदेव भावयति- 'किं भणियमित्यादि' किमेतावता प्रतिपादितं भवति । इह तावद् मनुष्या नानागतिहेतुविचित्रक्रियानुष्ठायिनः सन्तीति प्रत्यक्षत एव लक्ष्यन्ते । ततो यदि ते परलोके तत्तक्रियाफलभाज इष्यन्ते, ततो यथेहत्यक्रियाणामसदृशता, तथा परलोकगतजन्तूनामपि सैव युक्ता, ननु योऽत्र यादृशः स परत्रापि तादृश एव भवति ॥ १७८१ ॥ १७८२ ॥ अत्र पराभिप्रायमाशङ्कय परिहरन्नाह-- अह इह सफलं कम्मं न परे तो सबहान सरिसत्तं । अकयागम-कयनासा कम्माभावोऽहवा पत्तो॥१७८३॥ कम्माभावे य कओ भवंतरं, सरिसया व तदभावे । निक्कारणओ य भवो जइ तो नासो वि तह चेव ॥१७८४॥ अथैवं ब्रूषे- इह सफलं कर्मेति- इहभवसंबन्ध्येव कृष्यादिक्रियारूपं कर्म सफलम् , न तु पारभविकदानादिक्रियारूपं कर्म । , अधवेहभवसदृशः परलोकोऽपि यदि संमतस्तेन । कर्मफलमपीहभवसदृशं प्रतिपद्यस्व परलोके ॥ १७४१॥ किं भणितमिह मनुजा नानागतिकर्मकारिणः सन्ति । यदि ते तत्फलभाजः परस्मिन्नपि ततः सदृशता युक्ता ॥ १७८२ ॥ २ अथेह सफलं कर्म न परसिंशतः सर्वथा न सदृशत्वम् । अकृतागम कृतनाशौ कर्माभावोऽथवा प्राप्तः ॥ १७८३ ॥ कर्माभावे च कुतो भवान्तरं, सदृशता वा तदभावे । निष्कारणकश्च भवो यदि ततो नाशोऽपि तथैव ॥ १७४४ ॥ ॥७५२॥ Jan Education interna Foco and Private Use Only www.jainelbrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202