Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 152
________________ विशेषा. ||७५०॥ त्वमेवं मन्यसे- यो मनुष्यादिर्यादृश इहभवे स तादृशः परभवेऽपि । नन्वयमनुचितस्ते संशयः, यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादि, तथा, "शृगाले वै एष जायते यः सपुरीषो दह्यते" इत्यादि । एषां च वेदपदानाममुमर्थ मन्यसे त्वम्- 'पुरुषो मृतः सन् परभवे पुरुषत्वमेवाश्नुते प्रामोति, तथा, पशवो गवादयः पशुत्वमेवेत्यादि, अमूनि किल भवान्तरगतजन्तुसादृश्यप्रतिपादकानि; तथा, 'शृगालो वै" इत्यादीनि तु वैसदृश्यख्यापकानि' इति । अतस्तव संशयः । अयं चायुक्त एव, यतोऽमीषां वेदपदानां नायमर्थः, किन्तु वक्ष्यमाणलक्षण इति ।। १७७२ ॥ अत्र भाष्यम् कारणसरिसं कजं बीयरसेवङ्करो त्ति मण्णतो । इहभवसरिसं सव्वं जमवेसि परे वि तमजुत्तं ॥१७७३॥ सुधर्माण प्रति भगवानुवाच- 'इह कारणानुरूपमेव कार्यं भवति, यथा यवबीजानुरूपो यवाङ्करः, इहभवकारणं चान्यजन्म, ततस्तेनापीहभवसदृशेन भवितव्यम्' इत्येवं मन्यमानस्त्वं यदिहभवसदृशं सर्वं पुरुषादिकं परभवेऽप्यषि, तदयुक्तमेवेति ॥ १७७३ ।। कुतः ? इत्याह जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ । संजायइ गोलोमा-ऽविलोमसंजोगओ दुव्वा ॥१७७४॥ इति रुक्खायुवेदे जोणिविहाणे य विसरिसेहिंतो । दीसइ जम्हा जम्मं सुहम्म ! तो नायमगंतो ॥१७७५॥ ततः 'कारणानुरूपं कार्यम्' इति सुधर्मन् ! नायमेकान्तः, यतः शृङ्गादपि शरो जायते, तस्मादेव च सर्षपानुलिप्ताद् भूतृणकः शष्यसंघातो जायते; तथा, गोलोमा-विलोमाभ्यां दूर्वा प्रभवति, इत्येवं वृक्षायुर्वेद विलक्षणानेकद्रव्यसंयोगजन्मानो वनस्पतयो दृश्यन्ते । तथा, योनिविधाने च योनिमाभृते विसदृशानेकद्रव्यसंयोगयोनयः सर्प-सिंहादिप्राणिनो मणयो हेमादयश्च पदार्था नानारूपाः समुपलभ्यन्ते । अतः केयं कार्यस्य कारणानुरूपता? इति ।। १७७४ ॥ १७७५ ।। अथवा, यत एव कारणानुरूपं कार्यम् , अत एव भवान्तरे विचित्ररूपता जन्तूनाम् , इति दर्शयति , कारणसदृशं कार्य बीजस्येवाकुर इति मन्यमानः । इहभवसदृशं सर्वं यदवषि परस्मिन्नपि तदयुक्तम् ॥ १७७३ ।। २ जायते शरः भाद् भूतृणकः सर्पपानुलिप्तात् । संजायते गोलोमा-विलोमसंयोगतो दूर्वा ॥ १७७४ ॥ इति वृक्षायुर्वेद योनिविधाने च विसहशेभ्यः । दृश्यते यस्साजन्म सुधर्मन् ! ततो नायमेकान्तः ॥ १७७५ ॥ RE HTTERTATE ७५०॥ PICHAR For ons van

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202