Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
HRISTOबापर
बृहदत्तिः ।
७४२॥
नगर-सरित्-समुद्र-घट-पटादीनां प्रत्यक्षेणैव दर्शनात् सौदर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च 'सर्वादर्शनात्' इत्येतदयुक्तमिति ।
अत्र कश्चिदाह- ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात् सर्वथा निवृत्तो हेतुरिष्यत एव, यथा 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इति न ह्यनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः, विद्युद्-घन-कुसुमादिभिर्व्यभिचारात् । तद्वदिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथापि बहुषु तावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग् हेतुर्भविष्यति । तदयुक्तम् , यतस्तत्र 'यदनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति, यथाऽऽकाशम्' इत्येवं व्यतिरेकः सिध्यतिः इह तु यत्र शून्यता नास्ति, किं तर्हि ? वस्तुनः सत्त्वम् , परभागादर्शनमपि तत्र नास्ति, किन्तु परभागदर्शनम् , यथा क, इति भवतः सर्वासद्वादिनो व्यतिरेकः कचिदपि न सिध्यति, अतोऽहेतुरेवायमिति ॥ १७४४ ॥ १७४५ ॥
अत्र पराभिप्रायमाशय परिहरबाह--
नत्थि पर-मज्झभागा अपच्चक्खत्तओ मई होजा । नणु अक्ख-त्थावत्ती अपञ्चक्खत्तहाणी वा ॥१७४६॥
अथ स्यान्मतिः-पर-मध्यभागी न स्तः, अप्रत्यक्षत्वात् , खरविषाणवत् । तदसत्त्वे च तदपेक्षया निर्दिश्यमान आराद्भागोऽपि नास्ति, अतः सर्वशून्यतेत्यभिप्रायः। तदयुक्तम् , यतः 'अक्षमक्षमिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वम् , तस्मादप्रत्यक्षत्वात्' इत्युच्यमाने नन्वक्षाणामर्थस्य चाऽऽपत्तिः सत्ता प्रामोति, तदापत्तौ च शून्यताभ्युपगमहानिः। शून्यतार्या वाऽप्रत्यक्षत्वलक्षणस्य हेतोहोनिः, अक्षा-ऽर्थानामभावे प्रत्यक्षा-ऽप्रत्यक्षव्यपदेशानुपपत्तेरिति भावः ॥१७४६॥ ___ अपि च, 'अप्रत्यक्षत्वात्' इत्यनैकान्तिको हेतुरिति दर्शयन्नाहअस्थि अपच्चक्खं पि हु जह भवओ संसयाइविन्नाणं । अह नत्थि सुण्णया का कास व केणोवलद्धा वा?॥१७४७॥
__नन्वप्रत्यक्षमप्यस्ति किश्चिद् वस्तु, यथा भवतः संशयादिविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत् , तथा पर-मध्यभागावप्रत्यक्षौ भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्संशयादिविज्ञानमपि नास्ति, तर्हि का नाम शून्यता ?, कस्य वाऽसौ ?,
न स्तः पर-मध्यभागावप्रत्यक्षवतो मतिभवेत् । नन्वक्षा-र्थापत्तिरप्रत्यक्षस्वहानिर्वा ॥ १७४६ ॥ २ अस्त्यप्रत्यक्षमपि खलु यथा भवतः संशयादिविज्ञानम् । अथ नास्ति शून्यता का फस्य वा केनोपलब्धा बा ? ॥१७४७॥
||७४२॥
an Education Internat
Forsonal and Private Use Only
www.janelbrary.org
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202