Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 140
________________ विशेषा० ॥७३८ ॥ Jain Educationa Internationa किश्च सामग्गिमओ वत्ता वयणं चत्थि जइ तो कओ सुण्णं । अह नत्थि केण भणिअं वयणाभावे सुयं केण १ ॥ १७३३ ॥ बृहद्वृत्तिः । सामग्री- उर:- शिरः कण्ठौष्ठ तालु-जिह्वादिसमुदायात्मिका तन्मयः सामन्यात्मको वक्ता, तद्वचनं चास्ति नवा ? । यद्यस्ति, तर्हि कुतो जगच्छ्रन्यत्वम्, तद्वक्तृ-वचनसत्त्वेनैव व्यभिचारात् ? । अथ तद्वक्तृ-वचने न स्तः, तर्हि वक्तु वचनाभावे केन भणितं शून्यं जगत् (१- न केनचित् । सर्वशून्यत्वे च प्रतिपाद्यस्याप्यभावात् केन तच्छ्रन्यवचः श्रुतम् १ इति ।। १७३३ ।। अत्र पराभिप्रायमाशङ्कय परिहरन्नाह - जेणं चैव नवत्ता वयणं वा तो न संति वयणिज्जा । भावा तो सुण्णमिदं वयणमिदं सच्चमलियं वा ? ॥ १७३४॥ इसचं नाभावो अहालियं न प्पमाणमेयं ति । अब्भुवगयं ति व मई नाभावे जुत्तमेयं ति ॥ १७३५॥ येनैव न वक्ता, नापि च वचनम्, ततस्तेनैव न सन्ति वचनीया भावा इति, अतः शून्यमिदं जगदिति । अत्रोच्यते - यदेतद् वक्तृवचन-वचनीयानां भावानामभावप्रतिपादकं वचनं तत् सत्यमलीकं वा ? | यदि सत्यम्, तर्ह्यस्यैव सत्यवचनस्य सद्भावाद् नाभावः सर्वभावानाम् । अथालीकमिदं वचनम्, तर्ह्यप्रमाणमेतत्, अतो नातः शून्यतासिद्धिः । अथ यथा तथा वाभ्युपगतमस्माभिः शून्यताप्रतिपादकं वचनम्, अतोऽस्मद्वचनप्रामाण्यात् शून्यतासिद्धिरिति तव मतिः । नैवम्, यतः 'सत्यम्, अलीकं वा त्वयेदमभ्युपगतम् ?” इत्यादि पुनस्तदेवावर्तते । किञ्च, अभ्युपगन्ता, अभ्युपगमः, अभ्युपगमनीयं वेत्येतत्रयस्य सद्भावेऽभ्युपगमोऽप्येष भवतो युज्यते, न च सर्वभावानामभावे एतत्रयं युक्तमिति ।। १७३४ ।। १७३५ ।। अपि च, * सिकयासु किं न तेल्लं सामग्गीउ तिलेसु वि किमत्थि ? । किंव न सव्वं सिज्झइ सामग्गीउ खपुष्फाणं ? ॥ १७३६ ॥ १ सामग्रीयो वक्ता वचनं चास्ति यदि ततः कुतः शून्यम् । अथ नास्ति केन भणितं वचनाभावे श्रुतं केन ? ॥ १७३३ ॥ २ येनैव न वक्ता वचनं वा ततो न सन्ति वचनीयाः । भावास्ततः शून्यमिदं वचनमिदं सत्यमलोकं वा ? ॥ १७३४ ॥ यदि सत्यं नाभावोऽथालीकं न प्रमाणमेतदिति। अभ्युपगतमिति वा मतिर्नाभावे युक्तमेतदिति ॥ १७३५ ॥ ३ सिकतासु किं न तैलं सामग्रीत स्तिलेष्वपि किमस्ति ? किंवा न सर्व सिध्यति सामग्रीतो खपुष्पानाम् ? ॥ १७३६ ॥ For Personal and Private Use Only ॥७३८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202