Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
ereta
विशेषा.
बृहद्वा
७२४॥
PR
इह तावद् न जातं जायते, जातत्वादेव, निष्पन्नघटवत् । अथ जातमपि जायते, तीनवस्था, जातत्वाविशेषण पुनःपुनर्जन्मप्रसङ्गात् । अथानातं जायते । तत्रोत्तरमाह- 'अभाव त्ति' सूचकत्वात् सूत्रस्य, तीभावोऽपि खरविषाणलक्षणो जायताम् , अजात
त्वाविशेषात् । अथ जाताजातरूपं जायते । तदप्ययुक्तम् । कुतः ? इत्याह- उभयदोषान प्रत्येकोभयपक्षोक्तदोषापत्तेरित्यर्थः । किञ्च, - एतज्जाताजातलक्षणमुभयमस्ति वा, न वा । यद्यस्ति, तर्हि जातमेव तत् , न पुनरुभयम् , तत्र चोक्तो दोषः । अथ नास्ति, तथापि
नोभयं तत् , किन्त्वजातमेव, तत्रापि चाभिहितमेव दूषणम् । नापि जायमानं जायते, पूर्वोक्तविकल्पढ्यानतिवृत्तेः, तथाहि- तदपि जायमानमस्ति, नवा ? । यद्यस्ति, तर्हि जातमेव तत् । नास्ति चेत् , तवजातमेव । पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः । उक्तं च
“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते' ॥ १॥" इत्यादि । यस्मादेवम् , तस्मादनवस्थादिदोषप्रसङ्गेन वस्तूनामुत्पादायोगाजगतः शून्यतैव युक्तेति ॥ १६९४ ।। प्रकारान्तरेणापि वस्तूत्पत्त्ययोगतः शून्यतासाधनार्थमाह--
हेऊ-पच्चयसामग्गि वीसु भावेसु नो व जं कजं । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ॥१६९५॥
हेतवः- उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्य न दृश्यते, दृश्यते च सामग्रीमयम्- संपूर्णसामग्यवस्थायां पुनदृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव एवं युक्त इति शेषः । सर्वाभावे च न सामग्री- नैव सामग्रीसद्भावः प्रामोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्- हेतवश्व प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा? । न तावदेकैकशः, तथाऽनुपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामग्यमपि तदभाव एव स्यात् , सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावो न पामोति, अनुत्पन्नायाः सामग्य अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च
"हेतु-प्रत्ययसामग्री पृथग् भावेष्वदर्शनात् । तेन ते नाभिलप्या हि भावाः सर्वे स्वभावतः ॥१॥"
"लोके यावत् संज्ञा सामग्यामेव दृश्यते यस्मात् । तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥१॥" इत्यादि । अस्य च व्याख्या-पृथग् भावेष्वदर्शनात् 'कार्यस्य' इति शेषः । तेन ते घटादयो भावाः सर्वेऽपि स्वभावतः नागार्जुनकृते मध्यमककारिकानन्धे कारिका १५॥
R २ हेतु-प्रत्ययसामग्री विश्वगू भावेषु नो वा यत् कार्यम् । दृश्यते सामग्रीमयं सर्वाभाव न सामग्री ॥ १६९५ ॥ ३ प. ज. अत्र व्या' ।
साथससससससाना
सर
७२४॥
Forson and Private Use Only
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202