Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 132
________________ विशेषा ० ॥७३० ॥ Jan Education Internatio अथ 'इदं स्त्रम् ' ' इदं दीर्घम्' 'एतच्चोभयम्' इत्यादिस्व-परो भयबुद्धिः परमत्या- पराभ्युपगमेनोच्यते, न पुनः स्वतः सिद्धं स्वविषयज्ञानजनकं ह्रस्वादिकं किञ्चिदस्ति, अतो न कश्चित् पूर्वापरविरोध इत्यत्राह - ननु सर्वशून्यत्वे 'इदं स्वमतम्' 'एतच्च परमतम् ' इत्येतदपि स्व-परभावेन विशेषणं कुतः ?- न कुतश्चिदित्यर्थः, स्त्र-परभावेऽपि 'समया विवज्जओं वा' इत्याद्येवावर्तत इति भावः । स्वपरभावाद्यभ्युपगमे च शून्यत्वाभ्युपगमहानिरिति ।। १७०५ || १७०६ ।। १७०७ ।। १७०८ ।। १७०९ ।। अपिच, कमेण वा ते विष्णाणं होज दीह-हस्सेसु । जइ जुगवं कावेक्खा कमेण पुव्वम्मि काऽवेक्खा ? ॥ १७१० ॥ इमविणा वाजं बालस्सेह तस्स काऽवेक्खा । तुल्लेसु व काऽवेक्खा परोप्परं लोयणदुगे व्व १ ॥ १७११॥ ननु मध्यमा- प्रदेशिन्यादिदीर्घ-हस्वयोस्तवाभिप्रायेण स्वाकारप्रतिभासि ज्ञानं किं युगपदेव भवेत् क्रमेण वा ? | यदि युगपत्, तर्हि परानपेक्ष द्वयोरपि युगपदेव स्वप्रतिभासिनि ज्ञाने प्रतिभासात् कस्य किल काऽपेक्षा ? । अथ क्रमेण तदापि पूर्वमेव स्वप्रतिभासिना ज्ञानेन परानपेक्षमेव ह्रस्वस्य प्रदेशिन्यादेर्गृहीतत्वादुत्तरस्मिन् मध्यमादिके दीर्घे काऽपेक्षा ? । तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेव स्वकीयविविक्तरूपेण सर्वभावानां स्वज्ञाने प्रतिभासात् स्वत एव सिद्धिः । अथवा, बालस्य तत्क्षणमेव जातस्य शिशोर्यदिह नयनोन्मेपानन्तरमेवादौ विज्ञानम्, तत् किमपेक्ष्य प्रादुरस्ति १ । यदिवा, ये न इस्वे नापि दीर्घे, किन्तु परस्परं तुल्ये एव वस्तुनी, तयोर्युगपदेव स्वप्रतिभासिना ज्ञानेन गृह्यमाणयोः काऽन्योन्यापेक्षा ?- न काचित् यथा तुल्यस्य लोचनयुग्मस्य । तस्मादङ्गुल्यादिपदार्थानां नान्यापेक्षमेव रूपम्, किन्तु स्वप्रतिभासवता ज्ञानेनान्यनिरपेक्षा एव ते स्वरूपतोऽपि गृह्यन्ते । उत्तरकालं तु तत्तद्रूपजिज्ञासायां तत्तत्प्रतिपक्षस्मरणादिसहकारिकारणान्तरवशाद् दीर्घ-हस्वादिव्यपदेशाः प्रवर्तन्ते इति स्वतः सिद्धा एव सन्ति भावा इति ॥ १७१० ।।१७११॥ अपिच, किं हस्साओ दीहे दीहाओ चैव किं न दीहम्मि । कीस व न खपुप्फाउ किं न खपुष्फे खपुष्फाओ ? ॥ १७१२ ॥ हन्त ! यदि सर्वशून्यता, ततः किमिति ह्रस्वादेव प्रदेशिनीप्रभृतिद्रव्याद् दीर्घे मध्यमादिद्रव्ये दीर्घज्ञानाभिधानव्यवहारः १ युगपत् क्रमेण वा ते विज्ञानं भवेद् दीर्घ ह्रस्वयोः । यदि युगपत् काऽपेक्षा क्रमेण पूर्वस्मिन् काऽपेक्षा ? ॥ १७१० ॥ आदिमविज्ञानं वा यद् बालस्येह तस्य काऽपेक्षा । तुल्ययोर्वा काऽपेक्षा परस्परं लोचनद्विक इव ॥ १७११ ॥ २ किं स्वाद् दीर्घे दीर्घादेव किं न दीर्घे । कस्माद् वा न खपुष्पात् किं न खपुच्चे खपुष्पात् १ ॥ १७१२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७३० ॥ www.janeibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202