Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
MANTRAPATRE
विशेषा.
॥६५०||
'सामायिक' इति नपुंसकनिर्देशः, यथा वा मनुः, अक्षपाद इत्यादौ निर्देशकवशाद् निर्देशः, तथाऽत्रापि योषित-पुरुष नपुंसकलक्षणत्रिविधनिर्देशकवशात् तदेव सामायिक स्त्री-पु-नपुंसकं भवति- स्यादित्रिविधनिर्देशकवशाद् नन्दसंहिता-मनु-कापिलीयादिवत् त्रिध्वपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा 'सामायिक स्त्री' इत्यादि ॥ १५०९॥
अथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं समर्थयन्नाह
जह वा घडाभिहाणं घडसद्दो देवदत्तसद्दो त्ति । उभयमविरुद्धमेवं सामइयं नेगमनयरस ॥ १५१० ॥ इयं च गाथा, 'यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते' इत्यादिना व्याख्यातैवेति ॥ १५१० ॥ "निद्दिढ संगहो य ववहारो' इत्येतद् व्याख्यातुमाह
अत्थाउ च्चिय वयणं लहइ सरूवं जओ पईवो व्व । तो संगह-ववहारा भणति निदिट्ठवसगं तं ॥१५११॥
यतो यस्मादर्थादेव वाच्याद् घटादेः सकाशाद् वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः, प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्य ते, यदि तु प्रकाश्यं वस्तु न स्यात् , तदा किमपेक्षोऽसौ पदीप: स्यात् । तस्माद् यथा प्रकाश्यादेवार्थात् प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमामोति । ततस्तस्मात् संग्रह-व्यवहारनयौ 'निर्दिश्यते' इति | निर्दिष्टं वाच्यं वस्तु तद्वशगं तदधीनमेव तद् वचनं भणतो ब्रूतः । वाच्यं चेह सामायिकशब्दस्य सावधविरतिरूपस्तदभिधेयोऽर्थः । | स च रूढितो नपुंसकतया प्रसिद्ध इति । अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रह-व्यवहारावभ्युपगच्छतः । अथवा, सामायिक| वतां सत्त्वानां स्त्री-पुंनपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्व्यादिरूपत्वाद् वाच्यवशेन त्रिलिङ्गतापि सामायिकस्य संग्रह-व्यवहारनयमतेन द्रष्टव्यति ॥ १५११ ॥
प्रकारान्तरेणापि निर्दिष्टवशाद् निर्देशं समर्थयबाह
अहव निद्रुित्थस्स पजओ चेव तं सधम्म व्व । तप्पच्चयकारणओ घडस्स रुवाइधम्म व्व ॥१५१२॥
नखETTE
, यथा वा घटाभिधानं घटशब्दो देवदत्तशब्द इति । उभयमविरुद्धमेव सामायिक नैगमनयस्व ॥ १५१० ॥ २ गाथा १५०५ ॥ ३ अर्थादेव वचनं लभते स्वरूपं यतः प्रदीप इव । ततः संग्रह-व्यवहारी भणतो निर्दिष्टवशगं तत् ॥ १५11॥ ४ अधवा निर्दिष्टार्थस्य पर्यय एव तत् स्वधर्म इव । तत्प्रत्ययकारणतो घटस्य रूपादिधर्म इव ॥ १५१२ ॥
In die
For Personal and Private
Only
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202