Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥६९२॥
दृष्टफलमस्तु, किमदृष्टफलकल्पनेन ?। किंबहुना ?, सा क्रिया सर्वापि तन्मात्रफलैब दृष्टमात्रफलैव युज्यते, नादृष्टफला, यथा दृष्टमांसमात्रफला पशुविनाशक्रिया; न हि पशुविशसनक्रियामदृष्टाधर्मफलार्थ कोऽप्यारभते, किन्तु मांसभक्षणार्थम् । अतस्तन्मात्रफलैव सा, तावतैवावसितप्रयोजनत्वात् । एवं दानादिक्रियाया अपि दृष्ठमात्रमेव श्लाघादिकं किश्चित् फलम् , नान्यदिति ॥ १६१८ ।।
अस्यैवार्थस्य समर्थनार्थ कारणान्तरमाह
पायं व जीवलोगो वट्टइ दिट्ठफलासु किरियासु । अदिट्ठफलासुं पुण वट्टइ नासंखभागो वि ॥ १६१९ ॥ . लोकोऽपि च प्रायेण दृष्टमात्रफलाखेव कृषि-वाणिज्यादिक्रियासु प्रवर्तते, अदृष्टफलासु पुनर्दानादिक्रियासु तदसंख्येयभागोऽपि न वर्तते- कतिपयमात्र एव लोकस्तासु प्रवर्तते, न बहुरित्यर्थः । ततश्च हिंसादीनामशुभक्रियाणामदृष्टफलाभावाच्छुभक्रियाणामपि दानादीनामदृष्टफलाभावो भविष्यति । इति पराभिप्राय इति ।। १६१९ ।।
भगवानाह
सोम्म ! जउ च्चिय जीवा पायं दिट्ठप्फलासु वटुंति । अदिट्ठफलाओ वि य ताओ पडिवज तेणेव ॥१६२०॥
सौम्य ! इत्यनिभूतेरामन्त्रणम् , यत एव प्राणिनः प्रायेण कृषि-वाणिज्य-हिंसादिकास्खेव दृष्टफलास्व शुभक्रियासु प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिकासु शुभक्रियासु स्वल्पा एवं प्रवर्तन्ते, तेनैव तस्मादेव कारणात् ता अपि कृषि हिंसादिका दृष्टफलाः क्रिया अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ । इदमुक्तं भवति- यद्यपि कृषि-हिंसादिक्रियाकर्तारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम् , तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः । ते हि कृषि-हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्धाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति, दानादिक्रियानुष्ठातारस्तु स्वल्पा अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति ।
___ ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति ? इति चेत् । तदयुक्तम् , न ह्यविकलं कारणं स्वकार्य जनयत् कस्याप्याशंसामपेक्षते, किन्त्वविकलकारणतया स्वकार्य जनयत्येव । वप्तुरज्ञातमपि हि कोद्रवादिवीजं कचिद् भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणतां प्राप्त १क.ग. "विनाशन' । २ प्रायो वा जीवलोको वर्तते दृष्टफलासु क्रियासु । अदृष्टफलासु पुनर्वर्तते नासंख्यभागोऽपि ॥ १६.९॥
। सौम्य ! यत एवं जीवाः प्रायो दृष्टफलायु वर्तन्ते । अरष्टफला अपि च ताः प्रतिपय स्ख तेनैव ॥ १६२० ॥
॥६९२॥
Jan Education
Internation
Foc Pesonal and Private Use Only
www.janelbrary.org
Loading... Page Navigation 1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202