Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 68
________________ विशेषा ० ॥६६६॥ Jain Education internatio जं चार्गमा विरुद्धा परोप्परमओ वि संसओ जुत्तो । सव्वप्पमाणविसयाईओ जीवो त्ति तो बुद्धी ॥१५५३ || यतश्च तीर्थिकानां संबन्धिनः सर्वेऽप्यागमाः परस्परविरोधिनः खलु, अतोऽपि संशय एवात्मनो युक्तः, न तु निश्चयः, तथाहि - बृहद्वृत्तिः । केचिदागमा आत्मनो नास्तित्वमेव प्रतिपादयन्ति यदाहुर्नास्तिकाः “एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः || १ ||" इत्यादि । भोsयाह - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न च प्रेत्यसंज्ञास्ति" । सुगतस्त्वाह" न रूपं भिक्षवः ! पुद्गलः" इत्यादि । आत्मास्तित्ववचनान्यप्यागमेषु श्रूयन्ते तथाच वेद:- "न हि वै सशरीरस्य प्रिया-प्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इति तथा, "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि । कापिलागमे तु प्रतिपाद्यते - " अस्ति पुरुपोकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि । तस्मादागमानां परस्परविरुद्धत्वाद् नागमप्रमाणादध्यात्मसत्त्वासिद्धिः । इदं च वैशेषिकमतेन प्रत्यक्षानुमाना- Sगमलक्षणं प्रमाणत्रयमुपन्यस्तम् । एतच्च स्वयं द्रष्टव्यम् - उपमाप्रमाणगम्योऽपि जीवो न भवति । तत्र हि 'यथा गौस्तथा गवयः' इत्यादावेव सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । न चेहान्यः कश्चित् त्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति यद्दर्शनादात्मानमवगच्छामः । काला-ssकाश-दिगादयो जीवतुल्या विद्यन्त इति चेत् । न तेषामपि विवादास्पदीभूतत्वेन तदहिवद्धत्वात् । अर्थापत्तिसाध्योऽपि जीवो न भवति । न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मानमन्तरेण नोपपद्यते, यद्धलात् तं साधयामः । तस्मात् सर्वप्रमाणविषयातीतो जीव इति तव बुद्धिः, भावोपलम्भकप्रमाणपञ्चकविषयातीतत्वात्, प्रतिषेधसाधकाभावाख्यपष्ठप्रमाणविषय एव जीव इत्यर्थः । इति पूर्वपक्ष: ।। १५५३ ।। अथैतत्प्रतिविधानमाह- गोयम ! पक्खु चिय जीवो जं संसयाइविन्नाणं । पच्चक्खं च न सज्झं जह सुह दुक्खा सदेहम्मि || १५५४ || गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीवः, किमन्येन प्रमाणान्तरोपन्यासेन ? । कोऽयं जीवो मम प्रत्यक्षः ? इति चेत् । उच्यतेयदेतत् तवैव संशयादिविज्ञानं स्वसंवेदनसिद्धं हृदि स्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्षं १ यचागमा विरुद्वाः परस्परमतोऽपि संशयो युक्तः । सर्वप्रमाणविषयातीतो जीवोऽस्ति ततो बुद्धिः ।। १५५३ ।। २ . ज. 'दख्य' । ३ गौतम ! प्रत्यक्ष एव जीवो यत् संशयादिविज्ञानम् । प्रत्यक्षं च न साध्यं यथा सुख-दुःखे स्वदेहे ॥ १५५४ ॥ ४ध.ज. 'बक्खो थि' । For Personal and Private Use Only ॥६६६॥ www.jainveltrrying

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202