Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 53
________________ विशेषा. ॥६५॥ BIPI अथवा, तद् वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, तत्प्रत्ययकारणत्वात्- वाच्यार्थप्रतीतिहेतुत्वात् , यथा तस्यैव निर्देशस्य घटादेरन्ये संस्थानादयो धर्माः । इह यद् यस्य प्रत्ययकारणं तत् तस्य वपर्यायः, यथा घटस्य रूपादयः, वचनं च वाच्याथस्य प्रत्ययकारणम् , अतस्तत्पर्यायः, पर्यायश्व पर्यायिणोऽधीन एव, इति युक्तो निर्देश्यवशाद् निर्देश इति ॥ १५१२॥ स्यादेतत् , असिद्धोऽयं हेतु:- 'एतत्प्रत्ययकारणत्वाद् वचनस्य' इति, एतन्निराकरणार्थमाहवैयणं विण्णाणफलं जइ तं भणिए वि नत्थि किं तेणं ?। अण्णत्थ पच्चए वा सव्वत्थ वि पच्चओ पत्तो ॥१५१३॥ अभिधेयसंकरो वा बत्तरि पच्चओऽणभिहिए वि । तम्हा निदिवसा नपुंसगं बेंति सामइयं ॥१५१४॥ अर्थविज्ञानफलं हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने 'तं ति' तदर्थविज्ञानं नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात् । स्यादेतत् , वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम् । ततश्च विज्ञानफलं च तद् भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यति, इत्याशङ्कयाह- 'सव्वत्थेत्यादि' यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत् , तीविशेषेणैव सर्वत्रार्थे प्रत्ययः प्राप्तः, न वा कचिदप्यर्थेऽसौ भवेत् , अविशेषादिति- अतत्पर्यायत्वेऽपि तत्पत्ययहेतुत्वे सर्वत्रासौ भवेत् . न वा कचिद् भवेदिति भावः। स्यादेतत् , वचनाद् वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत् किमुच्यते- 'जइ तं भणिए वि नात्थ किं तेणं' इति ? इत्याशङ्क्याह- 'अभिधेयसंकरो वेत्यादि । अथवा, वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्रापि प्रत्ययो न भवेदित्येको दोष उक्तः । अथ दोषान्तरमभिधित्सुराह- 'अभिधेयसंकरो वेत्यादि' यदि हि वक्तर्यनभिहितेऽपि वचनात् तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरो-ष्ट्र ढेङ्क-बकादीनि बहूनि वस्तूनि सन्ति, ततो वक्तृवत् तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषां, अभिधेयेन वा घटादिना सह वक्त्रादीनामन्येषां संकरः, एकस्यां श्रोतृपतीती सांकर्य युगपत् तदाकारसंक्रमणं प्रामोति, न चैतदस्ति, एकस्माद् वचनादेकस्यैव प्रतिनियतस्य घटाद्याकारस्य संवेदनादिति । तस्मादभिधेयपर्याय एव वचनम् , तत्प्रत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिकशब्दस्यार्थरूप सामायिक रूढितो नपुंसकम् , तद्वशात् सामायिकशब्दः संग्रह-व्यवहारयोनपुंसकलिङ्गति । अथवा, सामायिकवतः स्त्री-पुं-नपुंसकत्वात् , तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि संग्रह-व्यवहारावभ्युपगच्छतः। वचन विज्ञानफलं यदि तद् भणितेऽपि नास्ति किं तेन । अन्यत्र प्रत्यय वा सर्वत्रापि प्रत्ययः प्राप्तः ॥१५१३॥ अभिधेयसंकरो वा बक्तरि प्रत्ययोऽनभिहितेऽपि । तस्माद् निर्दिष्टवशाद् नपुंसकं मुवन्ति सामायिकम् ॥ ४५१४॥ NOTree ६५१॥ Foto s and Private Use Only www.janeibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202