Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
ईय सव्वनयमयाइं परित्तविसयाई, समुदियाइं तु । जइणं बज्झ-भंतरनिदेसनिमित्तसंगाहि ॥१५३०॥
इत्येवमुक्तप्रकारेण सर्वाण्यपि नैगमादिनयमतानि परीत्तविषयाण्यन्योन्यनिरपेक्षतयैकैकांशग्राहीणि, अतो मिथ्यारूपत्वात् बृहद्वृत्तिः ।
तान्यप्रमाणमिति भावः । समुदितानि पुनस्तान्येवान्योन्यसापेक्षतया संपूर्णवस्तुग्राहित्वाजनं मतं भवति । कथंभूतं यज्जैन मतम् ? ॥६५८॥
इत्याह- 'बज्झेत्यादि' बाह्या-ऽभ्यन्तराणि निर्देशस्य वचनस्य शब्दस्य निमित्तानि संग्रहीतुमभ्युपगन्तुं शीलं यस्य तद् बाह्या-5ऽभ्य
न्तरनिर्देशनिमित्तसंग्राहि । तत्र बाद्यान्यभिधेयघट-पट-शकटादीनि, आभ्यन्तराणि तु स्वरनामकर्मोदय-तावादि-करण-प्रयत्नादीनि ER निर्देशस्य निमित्तानि द्रष्टव्यानि । समस्ततत्सामग्रीजन्यनिर्देशाभ्युपगमपरत्वेन सम्यग्रूपत्वाज्जैन मतं प्रमाणमितीह भावार्थः ।
आह- बाह्यो घटादिरर्थः शब्दस्य कथं निमित्तम् , संबन्धाभावात् । तदयुक्तम् , शब्दा-ऽर्थयोर्वाच्य-वाचकसंबन्धस्य विद्यमानत्वात् । यद्यर्थस्य शब्दो वाचकः, तहगृहीतसङ्केतस्यापि म्लेच्छादेरसावर्थ प्रतिपादयेदिति चेन् । नैवम् , कर्मक्षयोपशमस| व्यपेक्षस्यैव तस्य तत्पतिपादकत्वात् , क्षयोपशमस्य च संकेतादिसापेक्षत्वात् । न हि प्रदीपः प्रकाशक इत्येतावन्मात्रेणैवान्यादीनामप्यर्थे । प्रकाशयति । ननु यदि क्षयोपशमापेक्षः शब्दोऽर्थ प्रकाशयति, तर्हि संकेतकरणऽपि तदप्रकाशनप्रसङ्गः, न चैतदस्ति, गृहीतसंकेतानामविगानेनार्थप्रतिपत्तिदर्शनात् , ततः किमन्तर्गडुकल्पक्षयोपशमकल्पनेन ? । तदयुक्तम् , तथाहि- केषांचिज्जडमतीनां शास्त्रव्याख्यानादौ विषमपदवाक्येषु विशिष्टक्षयोपशमाभावात् संकेतोऽपि कर्तुं न शक्यते, अन्ये तु तत्करणेऽपि नार्थ प्रतिपद्यन्ते । यदपि केवांचिदपूर्वम्लेच्छभाषादिश्रवणेऽकृतसंकेतानामपि झगित्येव कथमप्यर्थप्रतिपत्तिदृश्यते, तत्रापि क्षयोपशमस्यैवातिपटुत्वं हेतुः । तस्मात् कर्मक्षयोपशमादिसामग्रीसव्यपेक्षः शब्दो वाचकः, अर्थस्तु वाच्यः, इति शब्दार्थयोर्वाच्यवाचकभावलक्षणः संबन्ध इति । तदेवं व्याख्याता 'दुविहं पि नेगमनओ' इत्यादिगाथा, तयाख्याने च व्याख्यातमुपोद्घातनियुक्तिद्वारगाथाद्वयस्य द्वितीयं द्वारम् ॥१५३०॥
अथ तृतीयं निर्गमद्वारमभिधित्सुस्तत्प्रतिपादकगाथायाः प्रस्तावनामाह-- निविट्ठस्स पसूई सा दव्व-खेत्त-काल-भावहिं । किं तं च जीवदव्वं पसूर्यमेयं जओ जह वा ॥ १५३१ ॥ खेत्ते कम्मि व काले पुरिसविसेसो व भावओ को सो । खेत्ताइतिगं निग्गमभेउ च्चिय छबिहो जं सो॥१५३२॥
इति सर्वनयमतानि परीतविषयाणि, समुदितानि तु । जैन बाह्या-ऽऽभ्यन्तरनिर्देशनिमित्तसंग्राहि ॥ १५३० ॥ २ गाथा १५.५। ३ निर्दिष्टस्य प्रसूतिः सा दप क्षेत्र काल-भावः । किं तच जीवद्रव्यं प्रसूसमेतद् यतो यथा वा ॥१५३१॥
ACA६५८॥ क्षेत्रे कस्मिन् वा काले पुरुषविशेषो वा भावतः कः सः । क्षेत्रादिनिक निगममेद एवं पविधो यत् सः ॥१५३२॥ ४ ज. 'मवंज'।
For
and P
ony
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202