Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
5
10
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
घटा-घाटा-घण्टादयः ॥ १४१ ॥
एते प्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च, घटावृन्दम् | घाटा-स्वाङ्गम् । घण्टा-वाद्यविशेषः । आदिग्रहणात् छटादयो भवन्ति ।। १४१ ।।
forfar aafa - शकि-कङ्कि-कृपि चपि चमिकम्येधि-of-कि कक्खि-त्-कृ-सृ-भृवृभ्यो ऽटः 15 ॥ १४२ ।।
प्रह्वत्वे, नटः भरतपुत्रः । तनूयी विस्तारे, तटं कूलम् । जप्रादुर्भावे, जटा प्रथित केशसंघातः । वन षण संभक्तौ, वट:- न्यग्रोधः । सटा अग्रथितः केशसंघातः ॥१३६ ।। जनि-पणि- किजुभ्यो दीर्घश्व ॥ १४० ॥ एभ्यष्टः प्रत्ययो भवति, दीर्घषां गुणापवादो भवति । जर्नचि प्रादुर्भाव, पणि व्यवहारस्तुत्योः, जाण्ट:, पाण्ट:- वृक्षविशेषवतो । किजू सौत्री, कीट:क्षुद्रजन्तुः । जूट:- मौलि: ।। १४० ।।
30
एभ्योsटः प्रत्ययो भवति । दिवच् क्रीडादी, देवट:देवकुलविशेषः, शिल्पी च । अव रक्षणादी, अवट:-प्रपातः, कूपश्च । श्रुं श्रवणे, श्रवट :- छत्त्रम् । कुंकु शब्दे, कवट:उच्छिष्टम् । कर्व गतौ कर्बट क्षुद्रपत्तनम् । शक्लृट् शक्ती, 20 शटकम् - अनः । ककुङ् गतौ कङ्कटः सन्नाहः । कङ्कटसीमा । कृपौड़ सामर्थ्य, कर्पर्ट - वासः । चप सान्त्वने, चपट:- रसः । चमू अदने चमट:- घस्मरः । कमूङ् कान्तौ, कमटः- वामनः । एधि वृद्धौ, एघटः वल्मीकः । ककि मर्कीसौत्री । कर्कट :- कपिलः, कुलीर, कर्कटी-त्रपुसी । मर्कट:125 कपिः, क्षुद्रजन्तुश्च । कक्ख हसने, कक्खटः कर्कशः । तू प्लवनतरणयोः, तरट:-पीनः । डुकृांग् करणे, करट:- काकः, करिकपोलच । सृ गतौ, सरटः कृकलासः । टुडुभृगुक् पोषणेच, भरट:-प्लवविशेषः, भृत्यः, कुलालश्च । वृग्ट् वरणे,
वरट:- क्षुद्रधान्यम्, प्रहारश्च ।। १४२ ।।
कुलि-विलिभ्यां कित् ॥१४३॥
आभ्यां किटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलटा-बन्धकी । विलत् वरणे, विलटा नदी ।। १४३ || कपट कीकटादयः ॥ १४४ ॥
कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेर्न35 लोपश्च कपट- माया । ककेरत ईच्च, कीकटः कृपणः । आदिग्रहणात् लघटपर्पटादयो भवन्ति ।। १४४।।
अनि शृ-प-वृ- ललिभ्य आटः ॥ १४५ ॥
एभ्य आटः प्रत्ययो भवति । अनक् प्राणने, अनाट:शिशुः । शृश् हिंसायाम्, शराट:- शकुन्तः । पशु पालनपूर
१३
णयोः, पराट- आयुक्तकः । वृश् संभक्तौ वराटः सेवकः । 40 ललिण् ईप्सायाम्, ललाटम् अलिकम् ॥१४५॥ सृ-सृपेः कित् ॥१४६॥
आभ्यां किदाटः प्रत्ययो भवति । सृ गतौ स्राट:- पुरः, सरः । सुप्लृ गतौ, सृपाट:- अल्पः कुमुदादिपत्त्रं च । सृपाटी-उपानत्, कुप्यम्, अल्पपुस्तकश्च ।। १४६ ।। किरो लश्च वा ॥ १४७॥
45
किरते: किदाटः प्रत्ययो भवति, लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः, किराटो वणिक्, म्लेच्छच ॥ १४७ ॥ कपाट - विराट-शृङ्गाट- प्रपुन्नाटादयः ॥ १४८ ॥
एते आटप्रत्ययान्ता निपात्यन्ते । कम्पेर्नलोपश्च, कपाट:- 50 अररिः । ' जपादीनां पो व:' [ २-३-१०५] इति वत्वे-कवाटः । वृङ इत्वं च विराट:- राजा । श्रयतेः शृङ्ग् च शृङ्गाटजलजविशेषः, विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च प्रपुनाट:एडगज: । आदिशब्दात् खल्वाटादयो भवन्ति ॥ १४८ ॥ चिरेरिटो भ् च ॥ १४६ ॥
चिरे: सौत्रादि: प्रत्ययो भवति, भकारश्चान्तादेशो भवति । चिभिटी-वालुकी ॥१४६॥
55
टिण्टश्वर् च वा ॥ १५०॥
चिरेटिदिण्टः प्रत्ययो भवति, चर इति चास्यादेशो वा भवति । चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ।। १५० ।। 60 तृ-क - कृपि कम्पि- कृषिभ्यः कोटः ॥ १५१ ॥ एभ्यः किदीट: प्रत्ययो भवति । तृ प्लवनतरणयो:, तिरीटं कूलवृक्षः, मुकुट, वेष्टनं च । कृत् विक्षेपे, किरीटमुकुटं हिरण्यं च । कृपौड़ सामर्थ्य, कृपीटं हिरण्यं, जल च । कपुङ् चलने, कम्पीट-कम्पः, कम्प्रं च । कृषीत् वि- 65 लेखने, कृषीटं जलम् ।। १५१।।
खनेररीटः ॥ १५२ ॥
खजु गतिवैकल्ये, इत्यस्मादरीट: प्रत्ययो भवति । खञ्जरीटः खञ्जनः ॥ १५२ ।।
ग-ज-द-व-भृभ्य उट उडश्च ॥१५३॥
एभ्य उट उडश्च प्रत्ययौ भवतः । भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थं । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम् । गृश् शब्दे, गरुट:- गरुडश्च-गरुत्मान् । जष्च् जरसि, जरुटः जरुडश्च वनस्पतिः । दृश् विदारणे, दरुट: दरुssa - बिडालः । वग्श् वरणे, वरुट: वरुडश्च- मेष: 75 भृष् भर्जने च भरुट : भरुडश्च- मेष एव ।। १५३ ॥ मङ्कर्मकमुकौ च ॥ १५४ ॥
Aho! Shrutgyanam
70
L

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132