Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 64
________________ ५० स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ भेदे, खण्डि :-प्रद्वारम् । मड्डु भूषायाम्, मण्डि : - मृद्भाजनपिधानम् । चडुङ्कोपे, चण्डि - भामिनी । यतङ् प्रयत्ने, यतिः - भिक्षुः । अञ्जौप् व्यक्तिम्रक्षणगतिषु, अञ्जि :सज्ज:, पेषणी, पेज:, गतिश्च समञ्जिः, शिश्नः । मच् 5 परिणामे, मसि:- स्त्री असूच् क्षेपणे, असि: खङ्गः । वनूयी याचने, वनि :- साधुः, याचना, शकुनिः, अग्निश्च । ध्वन शब्दे, ध्वनिः- नादः । षण भक्तौ सनिः- संभक्ता, पन्थाः, दानं, म्लेच्छः, नदीतटं च । गम्लृ गतौ गमि:आचार्यः । तमूच् काङ्क्षायाम्, तमिः - अलसः । ग्रन्थश् 10 संदर्भे, श्रन्थ मोचनप्रतिहर्षयोः, ग्रन्थिः, श्रन्थिश्व पर्व संध्यादि । जनैचि प्रादुर्भावे, जनि:- वधूः, कुलाङ्गना, भगिनी, प्रादुर्भाव मण शब्दे, मणिः- रत्नम् । आदिग्रहणात् वहीं प्रापणे, वहिः - अश्वः । खादू भक्षणे, खादि:श्वा । दधि धारणे, दधि-क्षीरविकार: । खल संचये च, 15 खलि:- पिण्याकः । शचि व्यक्तायां वाचि शची- इन्द्राणी, इतोऽत्यर्थात् इति गौरादित्वाद् वा ङोः इत्यादयोऽपि भवन्ति ।।६०७ || किलि- पिलि- पिशि - चिटि- त्रुटि शुष्ठि- तुण्डि कुण्ड भण्ड- हुण्डि - हिण्डि पिण्डि - चुल्लि बुधि- मिथि20 रुहि दिवि - कीर्त्यादिभ्यः || ६०८ || एम्य: इ: प्रत्ययो भवति । किलत् श्वैत्य-क्रीडनयोः, केलि:- क्रीडा | पिलण् क्षेपे, पेलि:- क्षुद्रपेला पिशत् अवयवे, पेशि:- मांसखण्डम् । चिट प्रेष्ये, चेटि:- दारिका, प्रेष्या च । त्रुटत् छेदने, ण्यन्तः, त्रोटि :- चञ्चुः । शुरु 25 शोषणे, शुण्ठि:- विश्वभेषजम् । | तुडुङ् तोडने, तुण्ड: आस्यम्, प्रवृद्धा च नाभिः । कुडुङ् दाहे, कुण्डि : - जलभाजनम् । भडुङ् परिभाषणे, भण्डि : - शकटम् हुडुङ् संघाते, हुण्डि : - पिण्डितः, ओदनः । हिडुङ् गतौ च हिण्डि : - रात्रौ रक्षाचार: । पिडुङ् संघाते, पिण्डि: नि 30 पीडित स्नेह पिण्डः । चुल्ल हावकरणे, चुल्लिः- रन्धनस्थानम् । बुधिच् ज्ञाने, बोधि:-सम्यग्ज्ञानम् । मिश्रृङ् - मेधा - हिंसयोः, मेथि: - खलमध्यस्थूणा । रुहं बीजजन्मनि, रोहिः - सस्यं जन्म च । दिवच् क्रीडादौ, देवि :- भूमिः । कृतण् संशब्दने, णिजन्तः कीर्तिः - यशः । आदिग्रहणादन्येऽपि ॥ ६०८ ।। 35 नाम्युपान्त्य कृ-गु-शू-प-पूभ्यः कित् ॥ ६० ॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे, लिखि:- शिल्पम् । शुच् शोके. शुचिः -पूतः, विद्वान्, धर्म, आषाढ । रुचि अभिप्रीत्यां च, रुचि:- दीप्ति:, अभिलाषच । भुजंप् पालनाभ्यवहारयोः, भुजि :- अग्निः, राजा, कुटिलं च । कुणत् शब्दोपकरणयो:, 40 कुणि:- विकलो हस्तः, हस्तविकलश्च । सृजत् विसर्गे, सृजि: - पन्थाः । द्युतिः दीप्तौ द्युतिः- दीप्तिः । ऋत् घृणागतिस्पर्धेषु ऋतिः - यतिः । छिपी द्वैधीकरणे, छिदिः - छेत्ताः - पशुश्च । मुदि हर्षे, मुदिः - बालः । भिपी विदारणे, भिदि : - वज्र', सूचकः, भेत्ता च । ऊछुपी दीप्तिदेवनयो:, 45 हृदिः - रथकारः । लिपींत् उपदेहे, लिपि:- अक्षरजातिः । तुर्-त्वरणे सौत्रः, तुरिः- तन्तुवायोपकरणम् । डुलण् उत्क्षेपे, डुलिः - कच्छपः । त्विषीं दीप्तौ त्विषिः - दीप्तिः, त्विषिमान् राजवर्चस्वी च । कृषींत् विलेखने, कृषिः कर्षणम्-कर्षणभूमिश्र । ऋषैत् गतौ, ऋषिः - मुनिः, वेद । EO कुषश् निष्कर्षे कुषिः- शुषिरम् । शुषंच् शोषणे, शुषि:छिद्रम्, शोषणं च । हृषु अलीके, हृषिः - अलीकवादी, दीप्तिः, तुष्टिश्च । ष्णुहौच् उद्गिरणे, स्तुहिः- वृक्षः । कृत् विक्षेपे, किरि:- सूकरः, मूषिकः, गन्धर्वः, गर्तश्च । मृत् निगरणे, गिरि:- नगः कन्दुकच । शृश् हिंसायाम्, शिरिः- 55 हिंस्रः, खड्गः शोकः, पाषाण । पुशु पालनपूरणयो:, पुरिः- नगरं राजा, पूरयिता च । पूङ् पवने, पुविः - बात: ॥ ६० ॥ विदि-वृतेर्वा ॥ ६१० ॥ आभ्याम् इः प्रत्ययो भवति, स च किद्वा । विदक् ज्ञाने, 60 विदि:- शिल्पी, वेदिः - इज्यादिस्थानम् । वृतङ् वर्तने, वृतिः - कण्टकशाखावरणम् । निर्वृतिः - सुखम्, वर्तिः - द्रव्यम्, दीपाङ्गं च ।। ६१० ।। तृ-भ्रम्याद्यापि दम्भिम्यस्तित्तिर- भृमाघापभाव ।।६११॥ 65 एभ्यः किद् इः प्रत्ययो भवति । एषां च यथासंख्यं तित्तिर- भृम-अध- अप-देभ इत्यादेशा भवन्ति । तू प्लवनतरणयोः, तित्तिरिः पक्षिजातिः, प्रवक्ता च वेदशाखायाः । भ्रमू चलने, भृमि:- वायुः, हस्ती, जलं च । बाहुलकाद् भृमादेशाभावे, भ्रमिः भ्रमः । अदं प्सांक् भक्षणे, अधि-उप- 70 रिभावे, अध्यागच्छति | आपलृट् व्याप्तौ अपि- समुच्चयादौ, लक्षोऽपि न्यग्रोधोऽपि । दम्भूट दम्भे, देभि:शरासनम् ।।६११। मने-रुदेतौ चास्य वा ॥ ६१२॥ मनिच् ज्ञाने, इत्यस्माद् इ: प्रत्ययो भवत्यकारस्य च 75 ऊकारैकारौ वा भवतः । मुनि:- ज्ञानवान् । मेनिःसंकल्पः । मनिः धूमवतः ।। ६१२ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132