Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 130
________________ [5] " रम्यादिभ्यः कर्तरि " ५-३ १२६, रम्यादिगण:रम-कम-नन्द-ह्लाद-व्रश्च शाति ६ । बहुवचनं प्रयोगानुसरणार्थम् ॥ [] " भुजि - पत्यादिभ्यः कर्मापादाने ५-३-१२८, भुज्यादिगण: "" [१०] पत्यादिगण: कर्मणि- भुज् भोजनम्, निरद् निरदनम्, आच्छादि आच्छादनम्, अवस्त्रावि अवस्त्रावणम् अवसिच् अवसेचनम्, अस् असनम् वस् वसनम्, आभृग् आभरणम् ८|| अपादाने - प्रपत् प्रयतनः, स्कन्दि प्रस्कन्दनः, च्योति प्रयोतनः स्रु प्रस्रवणः, झुष निर्झरणः, धृ शङ्खोद्धरणः, दाग् अपादानम् ७| बहुवचनं प्रयोगानुसरणार्थम् ॥ ३८ [११] " वर्षादयः क्लीवे" ५ -३ - २६, वर्षादयः शब्दा अलन्ताः क्लीबे यथादर्शनं भावाकत्रनिपात्यन्ते, नपुंसक्तान निवृत्त्यर्थं वचनम् । वर्षादिगण:वर्षम्, भयम् धनम्, ततम् खलम्, पदम्, युगम्, अत्र रथाङ्ग-कालविशेष-युग्मेषु अल् गत्वगुणाभावौ च निपातनात् । अनपुंसकक्तस्तु असरूपविधिना भवत्येव - वृष्यते स्म वृष्टं मेघेन, भीतं बटुना ॥७॥ [१२] "मूलविभुजादयः " ५-१-१४४, मूलविभुजादय: कप्रत्ययान्ता नियतार्थधातूपपदा यथाशिष्टप्रयोगं निपात्यन्ते । मूलविभुजादिगणः मूलानि विभुजति मूलविभुजो रथः, उर्व्यां रोहति उर्वीरुहो वृक्षः, कौ मोदते कुमुदं रवम्, महीं धरति महीघ्रः, उषसि बुध्यते उषर्बुधोऽग्निः, अपो बिर्भात अभ्रं मेघः, सरसि रोहति सरसिरुहं पद्मम्, नखानि मुञ्चन्ति नखमुचानि धनूंषि, काकेभ्यो गूहनीया: काकगुहास्तिलाः, धर्माय प्रददाति धर्मप्रदः, एवं कामप्रदः, शब्दप्रदः, शास्त्रेण प्रजानाति शास्त्रप्रज्ञः | १४ || [१३] " स्थादिभ्यः कः " ५-३-८२, स्थादिगण: प्रतिष्ठन्त्यस्मिन् प्रस्थः सानुः संतिष्ठन्तेऽस्यामिति संस्था, व्यवतिष्ठन्तेऽनयेति व्यवस्था, प्रस्नात्यस्मिनिति प्रस्नः प्रपिबन्त्यस्यामिति प्रपा, विध्यत्यनेनेति विध:, विहन्यतेऽनेनास्मिन् वा विघ्नः, आयुध्यन्तेऽनेनेत्यायुधम्, आध्यायन्ति तमिति आढ्यः १०।। [१४] "ज्ञानेच्छार्चार्थ-नीच्छील्यादिभ्यः क्तः” ५-२-१२, शील्यादिगण: शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शतिस्तुष्टो रुष्टो रुषित आशितः ||१|| तोऽभिव्याहृतो हृष्टो दृप्रस्तृप्तः सृतः स्थितो भृतः । अमृतो मुदितः पूर्त: शक्तोऽक्तः श्रान्त-विस्मितौ ॥२॥ संरब्धाऽऽरब्ध- दयिता दिग्धः स्निग्धोऽवतीर्णकः । आरूढो मूढ आयस्तः क्षुधित-क्लान्त - व्रीडिताः ॥३॥ मत्तचैव तथा क्रुद्धः श्लिष्टः सुहित इत्यपि । लिप्त दृष्टौ च विज्ञेयौ सति लग्नादयस्तथा ॥४॥४६॥ बहुलाधिकारादु यथाभिधानमेभ्यो भूतेऽपि क्तो भवति, तथा च तद्योगे तृतीयासमासोऽपि सिद्धः । अन्ये तु तक्रकौण्डिन्यन्यायेन वर्त्तमाने क्तं भूते क्तस्य बाधकमाहुः ॥ [१५] “कुत्-सम्पदादिभ्यः क्विप्" ५-३ - ११४, क्रुधादिगण: क्रुध्, युध्, क्षुघ्, तृष्, त्विष्, रुष्, रुज्, रुच् शुच्, मुद्, मृद्, गृ, त्रे दिश्, सृज् १५॥ क्रुधादिराकृतिगणः । [१६] संपदादिगण: संपद्, विपद्, आपद्, व्यापद्, प्रतिपद्, संसद्, परिषद्, उपसत्, उपनिषद्, निवित्, प्रशीः, आशीः प्रतिश्रुत्, उपस्रुत्, परिश्रुत्, उपानत्, प्रावृट्, विप्रुट्, नीवृत्, उपावृत्, संयत्, इणःसमित्, उपभृत् इन्धेः समित् २४ | संपदादिराकृतिगणः ॥ [१७] "भ्यादिभ्यो वा" ५-३ - ११५, भ्यादिगण: भी, भीतिः ह्रीः, ह्रीति: लूः लुतिः भूः भूतिः; कण्डूः, कण्डूया; कृत्, कृतिः; भित्, भित्तिः; छित् छित्तिः तुत्, तुत्तिः; दृक् दृष्टिः नशेः- नक्, Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 128 129 130 131 132