Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 63
________________ समि- निकषिभ्यामाः ॥ ५६८ ॥ सम्पूर्वादिण्क् गती, इत्यस्माद् निपूर्वात् कष हिंसायाम्, इत्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम्, निकषा पर्वतम् । समीप असूयावाचिनावेती ।। ५६८ ।। 5 दिवि-पुरि-वृषि- मृषिभ्यः कित् ॥५६॥ एभ्यः किदु आः प्रत्ययो भवति । दिवच क्रीडा-जयेच्छापणि-द्युति-स्तुति-गतिषु दिवा - अहः । पुरत् अग्रगमने, पुराभूतकालवाचि । वृषू - सेचने, वृषा - प्रबलमित्यर्थः । मृषीच् तितिक्षायाम्, मृषा - अभूतमित्यर्थः ॥५६६ ।। 10 वेः साहाभ्याम् ॥ ६००॥ 15 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 20 विपूर्वाभ्यां षच् अन्तकर्मणि, ओहां त्यागे, इत्येता भ्याम् आः प्रत्ययो भवति । विसा:- चन्द्रमाः, बुद्धिश्च । तालव्यान्तोऽयमित्येके विहा:- विहगः, स्वर्गश्च ॥ ६०० || वृ- मिथि - दिशिभ्यस्थ-य-ट्याश्वान्ताः ॥ ६०१॥ एभ्यः किद् आः प्रत्ययो भवति । यथासंख्यं थकार-यकारट्यकाराश्चान्ता भवन्ति । वृग्ट् वरणे, वृथा - अनर्थकम् । मिथूग् मेघा हिंसयोः, मिथ्या मृषा, निष्फलं च । दिशींत् अतिसर्जने, दिष्टया - प्रीतिवचनम् ॥ ६०१ ॥ मुचि-स्वदेर्ध च ॥ ६०२॥ आभ्यां किद् आः प्रत्ययो भवति, घकारश्चान्तस्य भवति । मुच्लूती मोक्षणे, मुधा - अनिमित्तम् । ष्वदि आस्वादने, स्वधा - पितृबलिः ॥ ३०२ ॥ सोग आह च ||६०३ || पूर्वात् ब्रूतेः आः प्रत्ययो भवत्यस्य चाहादेशो भवति । 25 स्वाहा - देवतातर्पणम् ।। ६०३ || सनि क्षमि - दुषेः ॥ ६०४ ॥ एभ्यो धातुभ्य आ : प्रत्ययो भवति । षणूयी दाने, सना - नित्यम् | क्षमौषि सहने, क्षमा-भूः क्षान्तिव । दुषं च वैकृत्ये, दोषा - रात्रिः ॥ ६०४ ॥ 30 सः ।।६०५।। डित् ॥ ६०५ ॥ धातोर्बहुलम् आः प्रत्ययो भवति, स च डिद् भवति । मनिच् ज्ञाने मा-निषेधे । षच् अन्तकर्मणि, सा-अव सानम् । अनक् प्राणने, आ-स्मरणादौ । प्रीङ्च् प्रीती, प्रास्मयने । हनंक् हिंसागत्योः, हा विषादे । वन भक्ती, वा35 विकल्पे । शंकु दाने, रा- दीप्ति: । भांक् दीप्तौ भा - कान्तिः, सहपूर्वः सभा - परिषत् । नाम्नीति सहस्य ૪૨ स्वरेभ्य इः ||६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ: प्रत्ययो भवति । जि अभिभवे, जयि:- राजा | हिंदू गति-वृद्ध्योः, हथिः कामः । रुक् शब्दे, 40 रवि - सूर्यः । कुंकु शब्दे, कविः - काव्यकर्ता । ष्टुंग स्तुती, स्तविः - उद्गाता । लूग्श् छेदने, लवि :- दात्रम् । पूग्‍ पवने, पविः - वायुः, वज्र, पवित्रं च । भू सत्तायाम्, भविः - सत्ता चन्द्रः, विधिश्व । ऋक् गतो, अरिः शत्रुः । हंग् हरणे, हरिः - इन्द्रः, विष्णुः, चन्दनम्, मर्कटादिव । हरयः- 45 शक्राश्वाः । द्रुडुभृ ंग्क् पोषणे च भरिः- वसुधा । सृ ंगती, सरि:- मेघः । पृश् पालनपूरणयो:, परि:-भूमिः । तु लवनतरणयोः, तरि:- नौः । दृश् विदारणे, दरिः - महाभिदा । मृश् हिंसायाम्, ण्यन्तः, मारि:- अशिवम् । वृग्श् वरणे, वर:- विष्णु: । ण्यन्ताद् वारिः- हस्तिबन्धनम्, वारि-जलम् 50 ।।६०६।। पद - पठि - पचि - स्थलि - हलि - कलि- बलि - वलि - वल्लि पल्लि कटि-चटि - वटि-वधि-गार्थ्यांचवन्दिनन्द्यवि वशि-वाशि- काशि- छर्दि तन्त्रि मन्त्रि- खण्डमण्डि - चण्डि - यत्यञ्जि-मस्यसि - वनि-ध्वनि - सनि - 55 गमि तमि-ग्रन्थि - श्रन्थि- जनि-मण्यादिभ्यः ।। ६०७ ॥ एभ्यः इः प्रत्ययो भवति । पदिच् गतौ पदि:-राशिः, मोक्षमार्गच । पठ व्यक्तायां वाचि, पठिः- विद्वान् । डुपचीप पाके, पचिः अग्निः । ष्ठल स्थाने, स्थलि:- दानशाला । हल विलेखने, हलि:- हलः । कलि शब्दसंख्यानयोः, कलि:- 60 कलहः, युगं च । बल प्राणनधान्यावरोधयोः, बलिः - देवतोपहार: दानवच । वलि वल्लि संवरणे, वलिः- त्वक्तरङ्गः । लि:- हिरण्यशलाका, लता च । पल्ल गतौ, पल्लि - मुनीनामाश्रमः, व्याधसंस्त्यायश्च । कटे वर्षावरणयो:, कटि:स्वाङ्गम् । चटण् भेदे, चटि:-वर्णः । वट वेष्टने, वटि :- 65 गुलिका, तन्तुः, शूना च, नाभिः, वर्णश्च । वत्र बन्धने, बधि:- क्रियाशब्दः । गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु, गाधिःविश्वामित्रपिता । अर्च पूजायाम्, अचि:- अग्निशिखा । वङ् स्तुत्यभिवादनयोः वन्दि:- ग्रहणिः । टुनदु समृद्धी, नन्दि - ईश्वरप्रतीहारः, भेरिव । अव रक्षणादौ, अवि:- 70 ऊर्णायुः । वशक् कान्तौ वशि:- वशिता । वाशिच् शब्दे, वाशि:- प्रकान्तिः, रश्मिः - गोमायुः, अग्निः शब्दः, प्रजननप्राप्ता चतुष्पात् जलदच । काशृङ् दीप्ती, काशयः - जनपदः । छर्दण् वमने, छर्दि :- वमनम् । तन्त्रिण् कुटुम्बधारणे, तन्त्रिः| वीणासूत्रम् । मन्त्रिण गुप्तभाषणे, मन्त्रिः सचिवः । खडुण् 75 Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132