Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 85
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ यामा - रथः । वांक् गति- गन्धनयो:, वामा-करचरण ह्रस्वः । पां रक्षणे, पामा - कच्छूः । वृषू सेचने, वर्ष्म शरीरम् । विशरण गत्यवसादनेषु, सम-गृहम् । विशंतु प्रवेशने, वेश्म- गृहम् । हिट् गति वृद्ध्योः, हेम- सुवर्णम् । 5 छदण् अपवारणे, छद्म-माया । दीच् क्षये, देङ्, पालने वा, दाम-रज्जुः, माता च दुधांग्क् धारणे च धामस्थानं तेजश्च । ष्ठां गतिनिवृत्तौ स्थाम-बलम् । बुंग्ट् अभिषवे, सोम: - यज्ञः पयः, रस, चन्द्रमाश्च । अशौटि व्याप्ती, अश्मा - पाषाणः । लक्षीण दर्शनाङ्कनयोः, लक्ष्म10 चिह्नम् । अयि गती, अय्म-संग्रामः । तक् हसने, तक्मारतिः, आतपः, दीपश्च । हुंक् दानादनयो:, होम-हव्यद्रव्यम्, अग्निहोत्रशाला च । धृग् धारणे, धर्म-पुण्यम् । विपूर्वात् विधर्मा-अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् । ध्याम- ध्यानम् ॥११॥ 15 कुष्युषि - सृपिभ्यः कित् ॥१२॥ एय: कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे. कुष्मशल्यम् । उषू दाहे. उष्मा - दाहः । सृप्लृ गतौ, सृप्मासर्पः शिशुः यतिश्व ॥ ६१२।। वृ' हेर्नोऽञ्च ॥१३॥ 20 वृहु: शब्दे, इत्यस्माद् मन् प्रत्ययो भवति नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं मोक्षः, वृहत्वादात्मा । ब्रह्मा भगवान् ।।१३।। व्येग एदोतौ च वा ॥१४॥ व्यं संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोती 25 चान्तादेशो वा भवतः । व्येम-वस्त्रम्, व्येमा-संसार:, कुविन्दभाण्डं च । व्योम - नभः । पक्षे व्याम - न्यग्रोधाख्यं प्रमाणम् ।।६१४।। स्यतेरी च वा ॥१५॥ षोंच् अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो भवति, ईकार30 वान्तादेशो वा भवति । सीमा-आघाटः । पक्षे साम- प्रियवचनं, वामदेव्यादि च ॥१५॥ सात्मन्नात्मन् वेमन्- रोमन्- क्लोमन् - ललामन् नामन् - पाप्मन् - पक्ष्मन् - यक्ष्मन्निति ॥ १६ ॥ एते मनूप्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म35 अत्यन्ताभ्यस्तं प्रकृतिभूतम्, अन्तकर्म च अतेः दीर्घव, आत्मा - जीवः । वेग-आत्वाभावश्च वेम - तन्तुवायोपकरणम् । रुहेर्लुक् च, रोम - तनूरुहम् । लत्वे लोम-तदेव | क्लमेरोच्च क्लोम - शरीरान्तरवयवः | लातेद्वित्वं च ललाम - भूषणादि। नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः प् च, पाप्मा - पापं रक्षश्च । पञ्चः कः षोऽन्तो 40 नलोपश्च पक्ष्म - अक्ष्यादिलोम । यस्यतेः यक्षिणो वा, यक्ष्मा - रोगः । इति करणान् तोक्म-रुक्म-शुष्मादयो भवन्ति ॥१६॥ हृ-जनियामिमन् ॥१३॥ आभ्याम् इमन् प्रत्ययो भवति । हंग् हरणे, हरिमा - 15 पापविशेषः मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमाधर्मविशेषः, संसारन ॥११७॥ ७१ सृ-ह-भृ-धृस्तृ-पूभ्य ईमन् ॥ १८ ॥ एभ्य ईमन् प्रत्ययो भवति । सृ गतौ, सरीमा - कालः । हंग् हरणे, हरीमा - मातरिश्वा । टुडुर्भूग्क् पोषणे च भरीमा- 50 क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा - धर्मः । स्तृग्श् आच्छादने, स्तरीमा - प्रावारः । षूत् प्रेरणे, सवीमागर्भः, प्रसूतिश्व ॥ १८ ॥ गमेरिन् ॥१६॥ गम्लृ गतौ, इत्यस्माद् इन् प्रत्ययो भवति । गमिष्य- 55 तीति गमी - जिगमिषुः ॥१६॥ आङश्च णित् ॥२०॥ आपूर्वात् केवलाच्च गमेणिद् इन् प्रत्ययो भवति । आगमिष्यतीति, आगामी प्रोषितादिः । गमिष्यतीति, गामीप्रस्थितादिः ॥२०॥ सुवः ॥२१॥ पूङच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी - आसविष्यमाणः, जनिष्यमाण इत्यर्थः ॥ २१ ॥ भुवो वा ॥२२॥ भू सत्तायाम्, इत्यस्माद् इन् प्रत्ययो भवति, स च णिद्वा 65 भवति । भविष्यतीति, भावी कर्मविपाकादिः । भवी - भविष्यन् ||२२|| प्रात् स्थः ||६२४॥ 60 प्रप्रतेर्या - बुधिभ्याम् ॥२३॥ प्रपूर्वात् प्रतिपूर्वाच्च यां प्रापणे, बुधि मनिच् ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति- 70 प्रयायी, प्रतियास्यतीति प्रतियायी, प्रभोत्स्यत इति प्रबोधी । प्रतिबोधी - बालादि: ।।२३। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132