________________
५०
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
भेदे, खण्डि :-प्रद्वारम् । मड्डु भूषायाम्, मण्डि : - मृद्भाजनपिधानम् । चडुङ्कोपे, चण्डि - भामिनी । यतङ् प्रयत्ने, यतिः - भिक्षुः । अञ्जौप् व्यक्तिम्रक्षणगतिषु, अञ्जि :सज्ज:, पेषणी, पेज:, गतिश्च समञ्जिः, शिश्नः । मच् 5 परिणामे, मसि:- स्त्री असूच् क्षेपणे, असि: खङ्गः । वनूयी याचने, वनि :- साधुः, याचना, शकुनिः, अग्निश्च । ध्वन शब्दे, ध्वनिः- नादः । षण भक्तौ सनिः- संभक्ता, पन्थाः, दानं, म्लेच्छः, नदीतटं च । गम्लृ गतौ गमि:आचार्यः । तमूच् काङ्क्षायाम्, तमिः - अलसः । ग्रन्थश् 10 संदर्भे, श्रन्थ मोचनप्रतिहर्षयोः, ग्रन्थिः, श्रन्थिश्व पर्व संध्यादि । जनैचि प्रादुर्भावे, जनि:- वधूः, कुलाङ्गना, भगिनी, प्रादुर्भाव मण शब्दे, मणिः- रत्नम् । आदिग्रहणात् वहीं प्रापणे, वहिः - अश्वः । खादू भक्षणे, खादि:श्वा । दधि धारणे, दधि-क्षीरविकार: । खल संचये च, 15 खलि:- पिण्याकः । शचि व्यक्तायां वाचि शची- इन्द्राणी, इतोऽत्यर्थात् इति गौरादित्वाद् वा ङोः इत्यादयोऽपि भवन्ति ।।६०७ ||
किलि- पिलि- पिशि - चिटि- त्रुटि शुष्ठि- तुण्डि कुण्ड भण्ड- हुण्डि - हिण्डि पिण्डि - चुल्लि बुधि- मिथि20 रुहि दिवि - कीर्त्यादिभ्यः || ६०८ ||
एम्य: इ: प्रत्ययो भवति । किलत् श्वैत्य-क्रीडनयोः, केलि:- क्रीडा | पिलण् क्षेपे, पेलि:- क्षुद्रपेला
पिशत् अवयवे, पेशि:- मांसखण्डम् । चिट प्रेष्ये, चेटि:- दारिका, प्रेष्या च । त्रुटत् छेदने, ण्यन्तः, त्रोटि :- चञ्चुः । शुरु 25 शोषणे, शुण्ठि:- विश्वभेषजम् ।
|
तुडुङ् तोडने, तुण्ड:
आस्यम्, प्रवृद्धा च नाभिः । कुडुङ् दाहे, कुण्डि : - जलभाजनम् । भडुङ् परिभाषणे, भण्डि : - शकटम् हुडुङ् संघाते, हुण्डि : - पिण्डितः, ओदनः । हिडुङ् गतौ च हिण्डि : - रात्रौ रक्षाचार: । पिडुङ् संघाते, पिण्डि: नि 30 पीडित स्नेह पिण्डः । चुल्ल हावकरणे, चुल्लिः- रन्धनस्थानम् ।
बुधिच् ज्ञाने, बोधि:-सम्यग्ज्ञानम् । मिश्रृङ् - मेधा - हिंसयोः, मेथि: - खलमध्यस्थूणा । रुहं बीजजन्मनि, रोहिः - सस्यं जन्म च । दिवच् क्रीडादौ, देवि :- भूमिः । कृतण् संशब्दने, णिजन्तः कीर्तिः - यशः । आदिग्रहणादन्येऽपि ॥ ६०८ ।।
35
नाम्युपान्त्य कृ-गु-शू-प-पूभ्यः कित् ॥ ६० ॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे, लिखि:- शिल्पम् । शुच् शोके. शुचिः -पूतः, विद्वान्, धर्म, आषाढ । रुचि अभिप्रीत्यां च, रुचि:- दीप्ति:, अभिलाषच । भुजंप् पालनाभ्यवहारयोः,
भुजि :- अग्निः, राजा, कुटिलं च । कुणत् शब्दोपकरणयो:, 40 कुणि:- विकलो हस्तः, हस्तविकलश्च । सृजत् विसर्गे, सृजि: - पन्थाः । द्युतिः दीप्तौ द्युतिः- दीप्तिः । ऋत् घृणागतिस्पर्धेषु ऋतिः - यतिः । छिपी द्वैधीकरणे, छिदिः - छेत्ताः - पशुश्च । मुदि हर्षे, मुदिः - बालः । भिपी विदारणे, भिदि : - वज्र', सूचकः, भेत्ता च । ऊछुपी दीप्तिदेवनयो:, 45 हृदिः - रथकारः । लिपींत् उपदेहे, लिपि:- अक्षरजातिः । तुर्-त्वरणे सौत्रः, तुरिः- तन्तुवायोपकरणम् । डुलण् उत्क्षेपे, डुलिः - कच्छपः । त्विषीं दीप्तौ त्विषिः - दीप्तिः, त्विषिमान् राजवर्चस्वी च । कृषींत् विलेखने, कृषिः कर्षणम्-कर्षणभूमिश्र । ऋषैत् गतौ, ऋषिः - मुनिः, वेद । EO कुषश् निष्कर्षे कुषिः- शुषिरम् । शुषंच् शोषणे, शुषि:छिद्रम्, शोषणं च । हृषु अलीके, हृषिः - अलीकवादी, दीप्तिः, तुष्टिश्च । ष्णुहौच् उद्गिरणे, स्तुहिः- वृक्षः । कृत् विक्षेपे, किरि:- सूकरः, मूषिकः, गन्धर्वः, गर्तश्च । मृत् निगरणे, गिरि:- नगः कन्दुकच । शृश् हिंसायाम्, शिरिः- 55 हिंस्रः, खड्गः शोकः, पाषाण । पुशु पालनपूरणयो:, पुरिः- नगरं राजा, पूरयिता च । पूङ् पवने, पुविः - बात: ॥ ६० ॥
विदि-वृतेर्वा ॥ ६१० ॥
आभ्याम् इः प्रत्ययो भवति, स च किद्वा । विदक् ज्ञाने, 60 विदि:- शिल्पी, वेदिः - इज्यादिस्थानम् । वृतङ् वर्तने, वृतिः - कण्टकशाखावरणम् । निर्वृतिः - सुखम्, वर्तिः - द्रव्यम्, दीपाङ्गं च ।। ६१० ।।
तृ-भ्रम्याद्यापि दम्भिम्यस्तित्तिर- भृमाघापभाव ।।६११॥
65
एभ्यः किद् इः प्रत्ययो भवति । एषां च यथासंख्यं तित्तिर- भृम-अध- अप-देभ इत्यादेशा भवन्ति । तू प्लवनतरणयोः, तित्तिरिः पक्षिजातिः, प्रवक्ता च वेदशाखायाः । भ्रमू चलने, भृमि:- वायुः, हस्ती, जलं च । बाहुलकाद् भृमादेशाभावे, भ्रमिः भ्रमः । अदं प्सांक् भक्षणे, अधि-उप- 70 रिभावे, अध्यागच्छति | आपलृट् व्याप्तौ अपि- समुच्चयादौ, लक्षोऽपि न्यग्रोधोऽपि । दम्भूट दम्भे, देभि:शरासनम् ।।६११।
मने-रुदेतौ चास्य वा ॥ ६१२॥
मनिच् ज्ञाने, इत्यस्माद् इ: प्रत्ययो भवत्यकारस्य च 75 ऊकारैकारौ वा भवतः । मुनि:- ज्ञानवान् । मेनिःसंकल्पः । मनिः धूमवतः ।। ६१२ ॥
Aho! Shrutgyanam