Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
द्रम गतौ, द्रमला :- त्रैराज्यवासिनः । जट झट संघाते, जटिल:- जटावन् । भट भृतौ भटिल:- श्वा, सेवकच । कुटत् कौटिल्ये, कुटिलम् - वक्रम् । चडुङ् कोपे, चण्डिलःश्वा-क्रोधनः, नापितश्च । शडुङ् रुजायाम्, शण्डिलः5 ऋषिः । तुडुङ् तोटने, तुण्डिलः - वाग्जाली । पिङ् सङ्घाते, पिण्डिल:- मेघः, हिंस्रः हिमः, गणकच । भू सत्तायाम्, भविल:-मुनिः, समर्थः, गृहम्, बहुनेता च । कुकि आदाने, कोकिलः - परभृतः ॥४८१ ॥
10
भण्डेर्न लुक् च वा ॥४८२ ॥
भडुङ् परिभाषणे, इत्यस्माद् इल: प्रत्ययो भवति नकारस्य च लुग्वा भवति । भडिल:- ऋषिः, पिशाचः, शत्रुश्च; भण्डिल:- श्वा, दूतः, ऋषिश्च ॥४८२ ।।
पि-मिथ भ्यः कित् ॥ ४८३ ॥
एम्य: किद् इलः प्रत्ययो भवति । गुपौ रक्षणे, गुपिलं15 गहनम् । मिथुगु मेधा - हिंसयो:, मिथिला नगरी । ध्रु स्थैर्ये च ध्रुविल: - ऋषि: ।।४८३॥
स्थण्डिल - कपिल- विच किलादयः ॥ ४८४ ॥
स्थण्डिलादयः शब्दा इलप्रत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड् च, स्थण्डिलं व्रतिशयनवेदिका । कबेः प् च, 20 कपिल:-वर्णः, ऋषिश्च । विचेरकोऽन्तश्च विचकिल:मल्लिकाविशेषः । आदिग्रहणाद् गोभिलनि कुम्भिलादयोऽपि भवन्ति ॥ ४८४ ॥
हृ षि वृति- चटि पटि- शकि- शङ्कि तण्डि - मयुत्कण्ठिभ्य उलः ॥४८५ ॥
स्था-वङ्क - बंहि-बिन्दिभ्यः किन्नलुक् च ॥४८६ ॥ एभ्यः किद् उल: प्रत्ययो नकारस्य च लुग् भवति । ष्ठां 40 गतिनिवृत्तो, स्थूल-पटकुटीविशेषः । बकुङ् कौटिल्ये, वकुल:- केसरः, ऋषिश्च । बहुङ् वृद्धौ बहुलं - प्रचुरम्, बहुल:- प्रासकः, कृष्णपक्षच । बहुलाः- कृत्तिकाः, बहुलागौः । विदु अवयवे, विदुल : - वेतसः ||४८६ ॥
कुमुल- तुमुल- निचुल- वञ्जुल- मञ्जुल - पृथुलविशंस्थुलाङ्गुल- मुकुल- शष्कुलादयः ॥४८७॥
25
एम्य उलः प्रत्ययो भवति । हृषच् तुष्टौ हृषु अली के वा, हर्षुल :- हर्षवान् कामी, मृगश्च । वृतङ् वर्तते, वर्तुल:वृत्तः । चटण् भेदे, चटुल:- चञ्चल: । पट गतौ, पटुल:- वाग्मी । शक्लूं शक्तौ शकुल:- मत्स्यः । शकुङ् शङ्कायाम्, शङ्कुला–क्रीडनशङ्कुः, बन्धनभाण्डम्, आयुधं च । तडु | 30 ताडने, तण्डुलो–निस्तुषो व्रीह्यादिः । मगु गतौ मङ्गुलंन्यायापेतम् । कठुङ् शोके, उत्कण्ठुलः - उत्कण्ठावान् ॥४८५॥
४१
एते उलप्रत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च, कुमुलं- कुसुमम्, हिरण्यं च कुमुलः शिशुः कान्तश्च । तुमुलं-व्यामिश्रयुद्धम्, संकुलं च । निजेः किञ्चश्व, निचुल:वञ्जुलः । वजेः स्वरान्नोऽन्तश्च वञ्जुल:- निचुलः । मञ्जः सौत्रः, मञ्जुल - मनोज्ञम् । प्रथेः पृथ् च पृथुल:- विस्तीर्णः । 50 विपूर्वात् शंसेस्थोऽन्तश्च विशंस्थुल : - व्यग्रः । अञ्जेश्व अङ्गुलम् - अष्टयवप्रमाणम् । मुचेः कित् कच, मुकुल:अविकसितपुष्पम् । शके: स्वरात् षोऽन्तश्च शष्कुली - भक्ष्यविशेषः, कर्णावयवश्च । आदिग्रहणाल्लकुल वल्गुलादयो भवन्ति ||४८७ ||
पिञ्जि- मञ्जि कण्डि-गण्डि बलि- बधि- वञ्चिभ्य
ऊलः ॥४८८ ॥
एभ्य ऊल: प्रत्ययो भवति । पिजुण् हिंसा - बल-दाननिकेतनेषु, पिञ्जूल:- हस्तिबन्धनपाशः, राशि:, कुलपतिश्च । मञ्जः सौत्रः, मञ्जुला - मृदुभाषिणी । कडुङ् मदे, 60 कण्डूल:- अशिष्टो जनः । गड्डु वदनैकदेशे, गण्डूल:कृमिजातिः । बल प्राणन - धान्यावरोधयोः, बलूलः - ऋषिः, मेघ मास । बधि बन्धने, बधूल:- हस्ती, घातकः रसायनं, तन्त्रकारश्च । वञ्चिण् प्रलम्भने, वञ्चूल:-हस्ती, मत्स्य-मारपक्षी च ॥४८८ ॥
तमेर्वोऽन्तो दीर्घस्तु वा ॥ ४८६ ॥
तमूच् काङ्क्षायाम् इत्यस्माद् ऊलः प्रत्ययो भवति, वोऽन्तश्च भवति दीर्घस्तु वा । ताम्बूलं, तम्बूलम् - उभयं पूगपत्रचूर्ण संयोगः ।।४८६॥
कुल - पुल - कुसिभ्यः कित् ॥४६०॥
एभ्य ऊलः प्रत्ययो भवति, स च किदु भवति । कुलबन्धु- संस्त्यानयो:, कुलूलः - कृमिजातिः । पुल महत्वे पुलूल:वृक्षविशेषः । कुसच् श्लेषे, कुमूलः–कोष्ठः ॥४६०॥
45
Aho! Shrutgyanam
55
65
60
दुकूल-कुकूल-बब्बूल-लाङ्गूल शार्दूलादयः ॥ ४६१ ॥
दुकूलादयः शब्दा ऊलप्रत्यान्ता निपात्यन्ते । दुको: 70 कोऽन्तश्च, दुकूलं - क्षौमं वासः । कुकूलं कारीषोऽग्निः । बधेऽन्त च । बब्बूल:- वृक्षविशेषः । लङ्गर्दीर्घश्व, लाङ्गलं-वालधिः । शृणातेर्दोऽन्तो वृद्धिश्च, शार्दूलः– व्याघ्रः । आदिग्रहणाद् मार्जूल - कञ्चुलादयो भवन्ति ।।४९१ ।। महेरेलः ॥४६२॥
75 मह पूजायाम्, इत्यस्मादेल: प्रत्ययो भवति । महेला- स्त्री

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132