SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ द्रम गतौ, द्रमला :- त्रैराज्यवासिनः । जट झट संघाते, जटिल:- जटावन् । भट भृतौ भटिल:- श्वा, सेवकच । कुटत् कौटिल्ये, कुटिलम् - वक्रम् । चडुङ् कोपे, चण्डिलःश्वा-क्रोधनः, नापितश्च । शडुङ् रुजायाम्, शण्डिलः5 ऋषिः । तुडुङ् तोटने, तुण्डिलः - वाग्जाली । पिङ् सङ्घाते, पिण्डिल:- मेघः, हिंस्रः हिमः, गणकच । भू सत्तायाम्, भविल:-मुनिः, समर्थः, गृहम्, बहुनेता च । कुकि आदाने, कोकिलः - परभृतः ॥४८१ ॥ 10 भण्डेर्न लुक् च वा ॥४८२ ॥ भडुङ् परिभाषणे, इत्यस्माद् इल: प्रत्ययो भवति नकारस्य च लुग्वा भवति । भडिल:- ऋषिः, पिशाचः, शत्रुश्च; भण्डिल:- श्वा, दूतः, ऋषिश्च ॥४८२ ।। पि-मिथ भ्यः कित् ॥ ४८३ ॥ एम्य: किद् इलः प्रत्ययो भवति । गुपौ रक्षणे, गुपिलं15 गहनम् । मिथुगु मेधा - हिंसयो:, मिथिला नगरी । ध्रु स्थैर्ये च ध्रुविल: - ऋषि: ।।४८३॥ स्थण्डिल - कपिल- विच किलादयः ॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलप्रत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड् च, स्थण्डिलं व्रतिशयनवेदिका । कबेः प् च, 20 कपिल:-वर्णः, ऋषिश्च । विचेरकोऽन्तश्च विचकिल:मल्लिकाविशेषः । आदिग्रहणाद् गोभिलनि कुम्भिलादयोऽपि भवन्ति ॥ ४८४ ॥ हृ षि वृति- चटि पटि- शकि- शङ्कि तण्डि - मयुत्कण्ठिभ्य उलः ॥४८५ ॥ स्था-वङ्क - बंहि-बिन्दिभ्यः किन्नलुक् च ॥४८६ ॥ एभ्यः किद् उल: प्रत्ययो नकारस्य च लुग् भवति । ष्ठां 40 गतिनिवृत्तो, स्थूल-पटकुटीविशेषः । बकुङ् कौटिल्ये, वकुल:- केसरः, ऋषिश्च । बहुङ् वृद्धौ बहुलं - प्रचुरम्, बहुल:- प्रासकः, कृष्णपक्षच । बहुलाः- कृत्तिकाः, बहुलागौः । विदु अवयवे, विदुल : - वेतसः ||४८६ ॥ कुमुल- तुमुल- निचुल- वञ्जुल- मञ्जुल - पृथुलविशंस्थुलाङ्गुल- मुकुल- शष्कुलादयः ॥४८७॥ 25 एम्य उलः प्रत्ययो भवति । हृषच् तुष्टौ हृषु अली के वा, हर्षुल :- हर्षवान् कामी, मृगश्च । वृतङ् वर्तते, वर्तुल:वृत्तः । चटण् भेदे, चटुल:- चञ्चल: । पट गतौ, पटुल:- वाग्मी । शक्लूं शक्तौ शकुल:- मत्स्यः । शकुङ् शङ्कायाम्, शङ्कुला–क्रीडनशङ्कुः, बन्धनभाण्डम्, आयुधं च । तडु | 30 ताडने, तण्डुलो–निस्तुषो व्रीह्यादिः । मगु गतौ मङ्गुलंन्यायापेतम् । कठुङ् शोके, उत्कण्ठुलः - उत्कण्ठावान् ॥४८५॥ ४१ एते उलप्रत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च, कुमुलं- कुसुमम्, हिरण्यं च कुमुलः शिशुः कान्तश्च । तुमुलं-व्यामिश्रयुद्धम्, संकुलं च । निजेः किञ्चश्व, निचुल:वञ्जुलः । वजेः स्वरान्नोऽन्तश्च वञ्जुल:- निचुलः । मञ्जः सौत्रः, मञ्जुल - मनोज्ञम् । प्रथेः पृथ् च पृथुल:- विस्तीर्णः । 50 विपूर्वात् शंसेस्थोऽन्तश्च विशंस्थुल : - व्यग्रः । अञ्जेश्व अङ्गुलम् - अष्टयवप्रमाणम् । मुचेः कित् कच, मुकुल:अविकसितपुष्पम् । शके: स्वरात् षोऽन्तश्च शष्कुली - भक्ष्यविशेषः, कर्णावयवश्च । आदिग्रहणाल्लकुल वल्गुलादयो भवन्ति ||४८७ || पिञ्जि- मञ्जि कण्डि-गण्डि बलि- बधि- वञ्चिभ्य ऊलः ॥४८८ ॥ एभ्य ऊल: प्रत्ययो भवति । पिजुण् हिंसा - बल-दाननिकेतनेषु, पिञ्जूल:- हस्तिबन्धनपाशः, राशि:, कुलपतिश्च । मञ्जः सौत्रः, मञ्जुला - मृदुभाषिणी । कडुङ् मदे, 60 कण्डूल:- अशिष्टो जनः । गड्डु वदनैकदेशे, गण्डूल:कृमिजातिः । बल प्राणन - धान्यावरोधयोः, बलूलः - ऋषिः, मेघ मास । बधि बन्धने, बधूल:- हस्ती, घातकः रसायनं, तन्त्रकारश्च । वञ्चिण् प्रलम्भने, वञ्चूल:-हस्ती, मत्स्य-मारपक्षी च ॥४८८ ॥ तमेर्वोऽन्तो दीर्घस्तु वा ॥ ४८६ ॥ तमूच् काङ्क्षायाम् इत्यस्माद् ऊलः प्रत्ययो भवति, वोऽन्तश्च भवति दीर्घस्तु वा । ताम्बूलं, तम्बूलम् - उभयं पूगपत्रचूर्ण संयोगः ।।४८६॥ कुल - पुल - कुसिभ्यः कित् ॥४६०॥ एभ्य ऊलः प्रत्ययो भवति, स च किदु भवति । कुलबन्धु- संस्त्यानयो:, कुलूलः - कृमिजातिः । पुल महत्वे पुलूल:वृक्षविशेषः । कुसच् श्लेषे, कुमूलः–कोष्ठः ॥४६०॥ 45 Aho! Shrutgyanam 55 65 60 दुकूल-कुकूल-बब्बूल-लाङ्गूल शार्दूलादयः ॥ ४६१ ॥ दुकूलादयः शब्दा ऊलप्रत्यान्ता निपात्यन्ते । दुको: 70 कोऽन्तश्च, दुकूलं - क्षौमं वासः । कुकूलं कारीषोऽग्निः । बधेऽन्त च । बब्बूल:- वृक्षविशेषः । लङ्गर्दीर्घश्व, लाङ्गलं-वालधिः । शृणातेर्दोऽन्तो वृद्धिश्च, शार्दूलः– व्याघ्रः । आदिग्रहणाद् मार्जूल - कञ्चुलादयो भवन्ति ।।४९१ ।। महेरेलः ॥४६२॥ 75 मह पूजायाम्, इत्यस्मादेल: प्रत्ययो भवति । महेला- स्त्री
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy