Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
२८
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
तिजि- युजे च ॥ ३४५॥
आभ्यां किदुमः प्रत्ययो भवति, गकारश्चान्तादेशो भवति । तिजि क्षमानिशानयोः तिग्मं- तीक्ष्णं, दीप्तं, तेजश्च । युज पी योगे, युग्मं युगलम् ॥ ३४५॥।
5
रुक्म- ग्रीष्म- कूर्म सूर्म- जाल्म- गुल्म प्रोम-परिस्तोम- सूक्ष्मादयः ||३४६॥
एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क् च, रुक्मंसुवणं, रूप्यं च । ग्रसेर्गीषु च, ग्रीष्मः ऋतुः । कुरते दीर्घश्च, कूर्म :- कच्छपः । षूत् प्रेरणे, इत्यस्माद्रोऽन्तश्च 10 भवति । सूर्मी- लोहप्रतिमा, चुल्लिश्च । जल घात्ये
दीर्घश्च, जाल्मः निकृष्ट: । गुपच व्याकुलत्वे लश्च, गुल्मः - व्याधिः, तरुसमूहः, वनस्पतिः, सेनाङ्गं च, गुल्मम्आयस्थानम् । जिघ्रतेरोत्वं च प्रोमः यज्ञाङ्गलक्षणः
सोमः । परिपूर्वात् स्तौः षत्वाभावो गुणश्च परिस्तोम :15 यज्ञविशेष: । सूचण् पशून्ये कत्वं षोऽन्तश्च । सूक्ष्म:निपुणः, सूक्ष्मम्- अणु । आदिग्रहणात् क्ष्मादयो भवन्ति
।
॥३४६ ॥
सृ-पू- प्रथि चरि-कडि-कर्देरमः ॥३४७॥
एम्य अम: प्रत्ययो भवति । सूं गतो, सरमा- देवशुनी । 20 पृश् पालनपूरणयो:, परम:- उत्कृष्टः । प्रथिष् प्रख्याने, प्रथमः- आद्यः । चर भक्षणे, चरम:- पश्चिमः । कडत् मदे, कडम:- शालिः । ऋफिडादित्वाल्लत्वे कलम :- स एव । कर्द कुत्सिते शब्दे, कर्दम:- पङ्कः ॥ ३४७॥
अवेधं च वः ॥ ३४८ ॥
25
अव रक्षणादौ, इत्यस्मादमः प्रत्ययो भवति, धश्चान्तादेशो वा भवति । अधमः, अवमश्च- हीनः ॥ ३४८ ॥ कुट्ट-वेष्टि- पूरि पिषि - सिचि गयप-वृ-महिभ्य
इमः ||३४६||
एभ्यः इमः प्रत्ययो भवति । कुट्टण् कुत्सने च, कुट्टिमं30 संस्कृतभूतलम् । वेष्टि वेष्टने, वेष्टिमं- पुष्पबन्धविशेषः, भक्ष्यविशेषश्च । पूरैचि आप्यायने, पूरिमं मालाबन्धविशेषः, भक्ष्यविशेषश्च । पिप्लूंप संचूर्णने, पेषिमं भक्ष्यविशेषः । षिचींत् क्षरणे, सेचिमं - मालाविशेषः । गणण् संख्याने, गणिमं- गणितम् । ऋक् गतौ णौ पौ, अपिमं 35 बालवत्साया दुग्धम् । वृग्ट् वरणे, वरिमं- तुलोन्मेयम् । मह पूजायाम्, महिमं- पूजनीयम् ||३४६ ||
वयम- खचिमादयः ॥ ३५० ॥
वयमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंग् तन्तुसन्ताने, वयादेशश्च वयिमं- माल्यं, कन्दुकः, तन्तुवाय
दण्डश्च । खनूग् अवदारणे, चश्च खचिमं मणिलोहविद्धं, 40 घृतविहीनं च दधि । आदिशब्दादन्येऽपि ।। ३५० ।। उद्व-कुल्यfल-कुथि कुरिकुटि कुडि- कुसिभ्यः कुमः
।। ३५१ ॥
उत्पूर्वाद्वटे: कुल्यादिभ्यश्च किदुमः प्रत्ययो भवति । वट वेष्टने, उद्धटुमः- परिक्षेपः । कुल बन्धुसंस्त्यानयोः, कुलुम:- 45 उत्सवः । अली भूषणादौ, अलुमः प्रसाधनम्, नापितः, अग्निश्च । कुथच् पूतीभावे, कुथुम :- ऋषिः, कुथुमं - मृगाजिनम् । कुरत् शब्दे, कुरुमः कारुः, भाजनं च । कुट कौटिल्ये, कुटुमः प्रेष्यः । कुडत् बाल्ये च, कुडुमा भूमिः । कुसच् श्लेषे, कुसुमं - पुष्पम् ।। ३५१ ।।
50
कुन्दुम लिन्दुम- कुङ्कुम - विक्रम॥३५२॥
एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरान्नो दश्च कुन्दुमः निचय:- गन्धद्रव्यं च । लींच् श्लेषणं, लिन्दभावश्च, लिन्दुमः- गन्धद्रव्यम् । कुके: स्वरान्नोन्तश्च । 55 कुङ्कुमं- घुसृणम् । विदुलूंती लाभे, रोन्तरच, विद्रुमःप्रवाल: । पदेष्टोऽन्तश्च । पट्टुमं- नगरम् । आदिग्रहणादन्येऽपि ।।३५२ ||
पट्टुमादयः
कुथि - गुरूमः ||३५३||
अभ्यामूमः प्रत्ययो भवति । कुथच् पूतिभावे, कोथुम :- 60 चरणकृदृषिः । गुधच् परिवेष्टने, गोधूम:- धान्यविशेष:
॥३५३ ।।
विहा - विशा-पचिभिद्यादेः केलिमः || ३५४ ||
विपूर्वाभ्याम् औहां त्यागे, शोंच् तक्षणे, इत्येताभ्यां पच्यादिभ्यश्च कि एलिमः प्रत्ययो भवति । विहीयते 65 त्यज्यतेऽशुचि शरीरमस्मिन्निति विहेलिम :- स्वर्गः । विश्यति तनूभवति मासि मासि कलाभिर्हीयमान इति विशेलिम :चन्द्रः, स्वर्गश्च । डुपचष् पाके, पचति असावन्नमिति पचेलिम :- अग्निः, आदित्यः, अश्वश्च । भिदुपी विदारणे, भिदेलिम :- तस्कर: । आदिशब्दात् दृशू प्रेक्षणे, दृशेलिमम् । 70 अदं प्सांक् भक्षणे, अदेलिमम् । हन हिंसागत्योः, घ्नेलिमम् । डुयानृग् याञ्चायाम्, याचेलिमम् । पांक् रक्षणे, पेलिमम् । हुकूंग् करणे, केलिमम् इत्यादयो भवन्ति ।। ३५४ ||
दो डिमः || ३५५ |
दांम् दाने, इत्यस्मात् डिमः प्रत्ययो भवति । दाडिमः वा दाडिमी वा वृक्षजातिः || ३५५ ||
डिमेः कित् ॥ ३५६ ॥
Aho! Shrutgyanam
75

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132